Ṛgveda · Maṇḍala 1 · Sūkta 118
Ṛk 1.118.6
Saṃhitā
उद्वंद॑नमैरतं दं॒सना॑भि॒रुद्रे॒भं द॑स्रा वृषणा॒ शची॑भिः ।
निष्टौ॒ग्र्यं पा॑रयथः समु॒द्रात्पुन॒श्च्यवा॑नं चक्रथु॒र्युवा॑नं ॥
उद् वन्दनम् ऐरतं दंसनाभिर् उद् रेभं दस्रा वृषणा शचीभिः |
निष् टौग्र्यम् पारयथः समुद्रात् पुनश् च्यवानं चक्रथुर् युवानम् ||
údvándanamairatam daṃsánābhirúdrebhám dasrā vṛṣaṇā śácībhiḥ ǀ
níṣṭaugryám pārayathaḥ samudrā́tpúnaścyávānam cakrathuryúvānam ǁ
ud vandanam airataṃ daṃsanābhir ud rebhaṃ dasrā vṛṣaṇā śacībhiḥ |
niṣ ṭaugryam pārayathaḥ samudrāt punaś cyavānaṃ cakrathur yuvānam ||
Padapāṭha
उत् । वन्द॑नम् । ऐ॒र॒त॒म् । दं॒सना॑भिः । उत् । रे॒भम् । द॒स्रा॒ । वृ॒ष॒णा॒ । शची॑भिः ।
निः । तौ॒ग्र्यम् । पा॒र॒य॒थः॒ । स॒मु॒द्रात् । पुन॒रिति॑ । च्यवा॑नम् । च॒क्र॒थुः॒ । युवा॑नम् ॥
उत् । वन्दनम् । ऐरतम् । दंसनाभिः । उत् । रेभम् । दस्रा । वृषणा । शचीभिः ।
निः । तौग्र्यम् । पारयथः । समुद्रात् । पुनरिति । च्यवानम् । चक्रथुः । युवानम् ॥
út ǀ vándanam ǀ airatam ǀ daṃsánābhiḥ ǀ út ǀ rebhám ǀ dasrā ǀ vṛṣaṇā ǀ śácībhiḥ ǀ
níḥ ǀ taugryám ǀ pārayathaḥ ǀ samudrā́t ǀ púnaríti ǀ cyávānam ǀ cakrathuḥ ǀ yúvānam ǁ
ut ǀ vandanam ǀ airatam ǀ daṃsanābhiḥ ǀ ut ǀ rebham ǀ dasrā ǀ vṛṣaṇā ǀ śacībhiḥ ǀ
niḥ ǀ taugryam ǀ pārayathaḥ ǀ samudrāt ǀ punariti ǀ cyavānam ǀ cakrathuḥ ǀ yuvānam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.118.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.19.01
- Maṇḍala · Anuvāka · Ṛk
- 1.17.056
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.