Ṛgveda · Maṇḍala 1 · Sūkta 118
Ṛk 1.118.2
Saṃhitā
त्रि॒वं॒धु॒रेण॑ त्रि॒वृता॒ रथे॑न त्रिच॒क्रेण॑ सु॒वृता या॑तम॒र्वाक् ।
पिन्व॑तं॒ गा जिन्व॑त॒मर्व॑तो नो व॒र्धय॑तमश्विना वी॒रम॒स्मे ॥
त्रिवन्धुरेण त्रिवृता रथेन त्रिचक्रेण सुवृता यातम् अर्वाक् |
पिन्वतं गा जिन्वतम् अर्वतो नो वर्धयतम् अश्विना वीरम् अस्मे ||
trivandhuréṇa trivṛ́tā ráthena tricakréṇa suvṛ́tā́ yātamarvā́k ǀ
pínvatam gā́ jínvatamárvato no vardháyatamaśvinā vīrámasmé ǁ
trivandhureṇa trivṛtā rathena tricakreṇa suvṛtā yātam arvāk |
pinvataṃ gā jinvatam arvato no vardhayatam aśvinā vīram asme ||
Padapāṭha
त्रि॒ऽव॒न्धु॒रेण॑ । त्रि॒ऽवृता॑ । रथे॑न । त्रि॒ऽच॒क्रेण॑ । सु॒ऽवृता॑ । आ । या॒त॒म् । अ॒र्वाक् ।
पिन्व॑तम् । गाः । जिन्व॑तम् । अर्व॑तः । नः॒ । व॒र्धय॑तम् । अ॒श्वि॒ना॒ । वी॒रम् । अ॒स्मे इति॑ ॥
त्रिऽवन्धुरेण । त्रिऽवृता । रथेन । त्रिऽचक्रेण । सुऽवृता । आ । यातम् । अर्वाक् ।
पिन्वतम् । गाः । जिन्वतम् । अर्वतः । नः । वर्धयतम् । अश्विना । वीरम् । अस्मे इति ॥
tri-vandhuréṇa ǀ tri-vṛ́tā ǀ ráthena ǀ tri-cakréṇa ǀ su-vṛ́tā ǀ ā́ ǀ yātam ǀ arvā́k ǀ
pínvatam ǀ gā́ḥ ǀ jínvatam ǀ árvataḥ ǀ naḥ ǀ vardháyatam ǀ aśvinā ǀ vīrám ǀ asmé íti ǁ
tri-vandhureṇa ǀ tri-vṛtā ǀ rathena ǀ tri-cakreṇa ǀ su-vṛtā ǀ ā ǀ yātam ǀ arvāk ǀ
pinvatam ǀ gāḥ ǀ jinvatam ǀ arvataḥ ǀ naḥ ǀ vardhayatam ǀ aśvinā ǀ vīram ǀ asme iti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.118.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.18.02
- Maṇḍala · Anuvāka · Ṛk
- 1.17.052
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.