Ṛgveda · Maṇḍala 1 · Sūkta 118
Ṛk 1.118.3
Saṃhitā
प्र॒वद्या॑मना सु॒वृता॒ रथे॑न॒ दस्रा॑वि॒मं शृ॑णुतं॒ श्लोक॒मद्रेः॑ ।
किमं॒ग वां॒ प्रत्यव॑र्तिं॒ गमि॑ष्ठा॒हुर्विप्रा॑सो अश्विना पुरा॒जाः ॥
प्रवद्यामना सुवृता रथेन दस्राव् इमं शृणुतं श्लोकम् अद्रेः |
किम् अङ्ग वाम् प्रत्य् अवर्तिं गमिष्ठाहुर् विप्रासो अश्विना पुराजाः ||
pravádyāmanā suvṛ́tā ráthena dásrāvimám śṛṇutam ślókamádreḥ ǀ
kímaṅgá vām prátyávartim gámiṣṭhāhúrvíprāso aśvinā purājā́ḥ ǁ
pravadyāmanā suvṛtā rathena dasrāv imaṃ śṛṇutaṃ ślokam adreḥ |
kim aṅga vām praty avartiṃ gamiṣṭhāhur viprāso aśvinā purājāḥ ||
Padapāṭha
प्र॒वत्ऽया॑मना । सु॒ऽवृता॑ । रथे॑न । दस्रौ॑ । इ॒मम् । शृ॒णु॒त॒म् । श्लोक॑म् । अद्रेः॑ ।
किम् । अ॒ङ्ग । वा॒म् । प्रति॑ । अव॑र्तिम् । गमि॑ष्ठा । आ॒हुः । विप्रा॑सः । अ॒श्वि॒ना॒ । पु॒रा॒ऽजाः ॥
प्रवत्ऽयामना । सुऽवृता । रथेन । दस्रौ । इमम् । शृणुतम् । श्लोकम् । अद्रेः ।
किम् । अङ्ग । वाम् । प्रति । अवर्तिम् । गमिष्ठा । आहुः । विप्रासः । अश्विना । पुराऽजाः ॥
pravát-yāmanā ǀ su-vṛ́tā ǀ ráthena ǀ dásrau ǀ imám ǀ śṛṇutam ǀ ślókam ǀ ádreḥ ǀ
kím ǀ aṅgá ǀ vām ǀ práti ǀ ávartim ǀ gámiṣṭhā ǀ āhúḥ ǀ víprāsaḥ ǀ aśvinā ǀ purā-jā́ḥ ǁ
pravat-yāmanā ǀ su-vṛtā ǀ rathena ǀ dasrau ǀ imam ǀ śṛṇutam ǀ ślokam ǀ adreḥ ǀ
kim ǀ aṅga ǀ vām ǀ prati ǀ avartim ǀ gamiṣṭhā ǀ āhuḥ ǀ viprāsaḥ ǀ aśvinā ǀ purā-jāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.118.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.18.03
- Maṇḍala · Anuvāka · Ṛk
- 1.17.053
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.