Ṛgveda · Maṇḍala 1 · Sūkta 188
Ṛk 1.188.9
Saṃhitā
त्वष्टा॑ रू॒पाणि॒ हि प्र॒भुः प॒शून्विश्वा॑न्त्समान॒जे ।
तेषां॑ नः स्फा॒तिमा य॑ज ॥
त्वष्टा रूपाणि हि प्रभुः पशून् विश्वान् समानजे |
तेषां न स्फातिम् आ यज ||
tváṣṭā rūpā́ṇi hí prabhúḥ paśū́nvíśvāntsamānajé ǀ
téṣām naḥ sphātímā́ yaja ǁ
tvaṣṭā rūpāṇi hi prabhuḥ paśūn viśvān samānaje |
teṣāṃ na sphātim ā yaja ||
Padapāṭha
त्वष्टा॑ । रू॒पाणि॑ । हि । प्र॒ऽभुः । प॒शून् । विश्वा॑न् । स॒म्ऽआ॒न॒जे ।
तेषा॑म् । नः॒ । स्फा॒तिम् । आ । य॒ज॒ ॥
त्वष्टा । रूपाणि । हि । प्रऽभुः । पशून् । विश्वान् । सम्ऽआनजे ।
तेषाम् । नः । स्फातिम् । आ । यज ॥
tváṣṭā ǀ rūpā́ṇi ǀ hí ǀ pra-bhúḥ ǀ paśū́n ǀ víśvān ǀ sam-ānajé ǀ
téṣām ǀ naḥ ǀ sphātím ǀ ā́ ǀ yaja ǁ
tvaṣṭā ǀ rūpāṇi ǀ hi ǀ pra-bhuḥ ǀ paśūn ǀ viśvān ǀ sam-ānaje ǀ
teṣām ǀ naḥ ǀ sphātim ǀ ā ǀ yaja ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.188.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.5.09.00
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.