Ṛk 1.49.3
Saṃhitā
वय॑श्चित्ते पत॒त्रिणो॑ द्वि॒पच्चतु॑ष्पदर्जुनि ।
उषः॒ प्रार॑न्नृ॒तूँरनु॑ दि॒वो अंते॑भ्य॒स्परि॑ ॥
वयश् चित् ते पतत्रिणो द्विपच् चतुष्पद् अर्जुनि |
उषः प्रारन्न् ऋतूंर् अनु दिवो अन्तेभ्यस् परि ||
váyaścitte patatríṇo dvipáccátuṣpadarjuni ǀ
úṣaḥ prā́rannṛtū́m̐ránu divó ántebhyaspári ǁ
vayaś cit te patatriṇo dvipac catuṣpad arjuni |
uṣaḥ prārann ṛtūṃr anu divo antebhyas pari ||
Padapāṭha
वयः॑ । चि॒त् । ते॒ । प॒त॒त्रिणः॑ । द्वि॒ऽपत् । चतुः॑ऽपत् । अ॒र्जु॒नि॒ ।
उषः॑ । प्र । आ॒र॒न् । ऋ॒तून् । अनु॑ । दि॒वः । अन्ते॑भ्यः । परि॑ ॥
वयः । चित् । ते । पतत्रिणः । द्विऽपत् । चतुःऽपत् । अर्जुनि ।
उषः । प्र । आरन् । ऋतून् । अनु । दिवः । अन्तेभ्यः । परि ॥
váyaḥ ǀ cit ǀ te ǀ patatríṇaḥ ǀ dvi-pát ǀ cátuḥ-pat ǀ arjuni ǀ
úṣaḥ ǀ prá ǀ āran ǀ ṛtū́n ǀ ánu ǀ diváḥ ǀ ántebhyaḥ ǀ pári ǁ
vayaḥ ǀ cit ǀ te ǀ patatriṇaḥ ǀ dvi-pat ǀ catuḥ-pat ǀ arjuni ǀ
uṣaḥ ǀ pra ǀ āran ǀ ṛtūn ǀ anu ǀ divaḥ ǀ antebhyaḥ ǀ pari ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.049.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.06.03
- Maṇḍala · Anuvāka · Ṛk
- 01.09.068
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Praskaṇva Kāṇva
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.