Ṛk 1.49.4
Saṃhitā
व्यु॒च्छंती॒ हि र॒श्मिभि॒र्विश्व॑मा॒भासि॑ रोच॒नं ।
तां त्वामु॑षर्वसू॒यवो॑ गी॒र्भिः कण्वा॑ अहूषत ॥
व्युच्छन्ती हि रश्मिभिर् विश्वम् आभासि रोचनम् |
तां त्वाम् उषर् वसूयवो गीर्भिः कण्वा अहूषत ||
vyucchántī hí raśmíbhirvíśvamābhā́si rocanám ǀ
tā́m tvā́muṣarvasūyávo gīrbhíḥ káṇvā ahūṣata ǁ
vyucchantī hi raśmibhir viśvam ābhāsi rocanam |
tāṃ tvām uṣar vasūyavo gīrbhiḥ kaṇvā ahūṣata ||
Padapāṭha
वि॒ऽउ॒च्छन्ती॑ । हि । र॒श्मिऽभिः॑ । विश्व॑म् । आ॒ऽभासि॑ । रो॒च॒नम् ।
ताम् । त्वाम् । उ॒षः॒ । व॒सु॒ऽयवः॑ । गीः॒ऽभिः । कण्वाः॑ । अ॒हू॒ष॒त॒ ॥
विऽउच्छन्ती । हि । रश्मिऽभिः । विश्वम् । आऽभासि । रोचनम् ।
ताम् । त्वाम् । उषः । वसुऽयवः । गीःऽभिः । कण्वाः । अहूषत ॥
vi-ucchántī ǀ hí ǀ raśmí-bhiḥ ǀ víśvam ǀ ā-bhā́si ǀ rocanám ǀ
tā́m ǀ tvā́m ǀ uṣaḥ ǀ vasu-yávaḥ ǀ gīḥ-bhíḥ ǀ káṇvāḥ ǀ ahūṣata ǁ
vi-ucchantī ǀ hi ǀ raśmi-bhiḥ ǀ viśvam ǀ ā-bhāsi ǀ rocanam ǀ
tām ǀ tvām ǀ uṣaḥ ǀ vasu-yavaḥ ǀ gīḥ-bhiḥ ǀ kaṇvāḥ ǀ ahūṣata ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.049.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.06.04
- Maṇḍala · Anuvāka · Ṛk
- 01.09.069
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Praskaṇva Kāṇva
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.