Ṛgveda · Maṇḍala 1 · Sūkta 130

Ṛk 1.130.10

Indra · Parucchepa Daivodāsi

The whole sūkta Link

Saṃhitā

स नो॒ नव्ये॑भिर्वृषकर्मन्नु॒क्थैः पुरां॑ दर्तः पा॒युभिः॑ पाहि श॒ग्मैः ।
दि॒वो॒दा॒सेभि॑रिंद्र॒ स्तवा॑नो वावृधी॒था अहो॑भिरिव॒ द्यौः ॥

स नो नव्येभिर् वृषकर्मन्न् उक्थैः पुरां दर्तः पायुभिः पाहि शग्मैः |
दिवोदासेभिर् इन्द्र स्तवानो वावृधीथा अहोभिर् इव द्यौः ||

sá no návyebhirvṛṣakarmannuktháiḥ púrām dartaḥ pāyúbhiḥ pāhi śagmáiḥ ǀ
divodāsébhirindra stávāno vāvṛdhīthā́ áhobhiriva dyáuḥ ǁ

sa no navyebhir vṛṣakarmann ukthaiḥ purāṃ dartaḥ pāyubhiḥ pāhi śagmaiḥ |
divodāsebhir indra stavāno vāvṛdhīthā ahobhir iva dyauḥ ||

Padapāṭha

सः । नः॒ । नव्ये॑भिः । वृ॒ष॒ऽक॒र्म॒न् । उ॒क्थैः । पुरा॑म् । द॒र्त॒रिति॑ दर्तः । पा॒युऽभिः॑ । पा॒हि॒ । श॒ग्मैः ।
दि॒वः॒ऽदा॒सेभिः॑ । इ॒न्द्र॒ । स्तवा॑नः । व॒वृ॒धी॒थाः । अहो॑भिःऽइव । द्यौः ॥

सः । नः । नव्येभिः । वृषऽकर्मन् । उक्थैः । पुराम् । दर्तरिति दर्तः । पायुऽभिः । पाहि । शग्मैः ।
दिवःऽदासेभिः । इन्द्र । स्तवानः । ववृधीथाः । अहोभिःऽइव । द्यौः ॥

sáḥ ǀ naḥ ǀ návyebhiḥ ǀ vṛṣa-karman ǀ uktháiḥ ǀ púrām ǀ dartaríti dartaḥ ǀ pāyú-bhiḥ ǀ pāhi ǀ śagmáiḥ ǀ
divaḥ-dāsébhiḥ ǀ indra ǀ stávānaḥ ǀ vavṛdhīthā́ḥ ǀ áhobhiḥ-iva ǀ dyáuḥ ǁ

saḥ ǀ naḥ ǀ navyebhiḥ ǀ vṛṣa-karman ǀ ukthaiḥ ǀ purām ǀ dartariti dartaḥ ǀ pāyu-bhiḥ ǀ pāhi ǀ śagmaiḥ ǀ
divaḥ-dāsebhiḥ ǀ indra ǀ stavānaḥ ǀ vavṛdhīthāḥ ǀ ahobhiḥ-iva ǀ dyauḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
01.130.10
Aṣṭaka · Adhyāya · Varga · Ṛk
2.1.19.05
Maṇḍala · Anuvāka · Ṛk
1.19.040
Devatā देवता
Indra
Ṛṣi ऋषि
Parucchepa Daivodāsi
Chandas छन्दस्
Atyaṣṭi, Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.130.10

Interpretations

Sāyaṇa

इन्द्रायहीतिसप्तर्चंपंचमंसूक्तम् इन्द्रायसप्तेत्यनुक्रमणिका परुच्छेपऋषिः अत्यष्टिछन्दःइन्द्रोदेवता पृष्ठ्यस्यषष्ठेहनि माध्यन्दिनसवनेहोत्रकाः स्वस्वशस्त्रेएतत्सूक्तं तृचत्रयंकृत्वा आरंभणीयाभ्यऊर्ध्व- मावपेयुः अत्रायंविभागः—अद्यास्तिस्रोमैत्रावरुणस्य तृतीयाद्यास्तिस्रोब्राह्मणाच्छंसिनः पंचम्याद्या- स्तिस्रोच्छावाकस्य एतच्चतुर्थेहनीतिखण्डेसूत्रितम्-षष्ठेहनीन्द्रायहिद्यौरसुरोअनम्नतेत्येवमेवेति तत्रै- वाहनि तस्मिन्नेवस्वनेप्रशास्त्रादीनां प्रस्थितयाज्याभ्यः पुरस्तादादितः षळृचः एकैकशःप्रक्षेपणीयाः षष्ठस्येतिख्ण्डेसूत्रितं—इन्द्रायहिद्यौरसुरोअनम्नतेतिषळिति महाव्रतेनिष्केवल्ये इन्द्रायहीतितृचोवै- कल्पिकानुरूपद्वितीयःमहाव्रतस्येतिखण्डेसूत्रितंएन्द्रयाह्युपनःपरावतइन्द्रायहिद्यौरसुरोअनम्नतेति ।