Ṛgveda · Maṇḍala 1 · Sūkta 130
Ṛk 1.130.9
Saṃhitā
सूर॑श्च॒क्रं प्र वृ॑हज्जा॒त ओज॑सा प्रपि॒त्वे वाच॑मरु॒णो मु॑षायतीशा॒न आ मु॑षायति ।
उ॒शना॒ यत्प॑रा॒वतोऽज॑गन्नू॒तये॑ कवे ।
सु॒म्नानि॒ विश्वा॒ मनु॑षेव तु॒र्वणि॒रहा॒ विश्वे॑व तु॒र्वणिः॑ ॥
सूरश् चक्रम् प्र वृहज् जात ओजसा प्रपित्वे वाचम् अरुणो मुषायतीशान आ मुषायति |
उशना यत् परावतो ऽजगन्न् ऊतये कवे |
सुम्नानि विश्वा मनुषेव तुर्वणिर् अहा विश्वेव तुर्वणिः ||
sū́raścakrám prá vṛhajjātá ójasā prapitvé vā́camaruṇó muṣāyatīśāná ā́ muṣāyati ǀ
uśánā yátparāvátó’jagannūtáye kave ǀ
sumnā́ni víśvā mánuṣeva turváṇiráhā víśveva turváṇiḥ ǁ
sūraś cakram pra vṛhaj jāta ojasā prapitve vācam aruṇo muṣāyatīśāna ā muṣāyati |
uśanā yat parāvato 'jagann ūtaye kave |
sumnāni viśvā manuṣeva turvaṇir ahā viśveva turvaṇiḥ ||
Padapāṭha
सूरः॑ । च॒क्रम् । प्र । वृ॒ह॒त् । जा॒तः । ओज॑सा । प्र॒ऽपि॒त्वे । वाच॑म् । अ॒रु॒णः । मु॒षा॒य॒ति॒ । ई॒शा॒नः । आ । मु॒षा॒य॒ति॒ ।
उ॒शना॑ । यत् । प॒रा॒ऽवतः॑ । अज॑गन् । ऊ॒तये॑ । क॒वे॒ ।
सु॒म्नानि॑ । विश्वा॑ । मनु॑षाऽइव । तु॒र्वणिः॑ । अहा॑ । विश्वा॑ऽइव । तु॒र्वणिः॑ ॥
सूरः । चक्रम् । प्र । वृहत् । जातः । ओजसा । प्रऽपित्वे । वाचम् । अरुणः । मुषायति । ईशानः । आ । मुषायति ।
उशना । यत् । पराऽवतः । अजगन् । ऊतये । कवे ।
सुम्नानि । विश्वा । मनुषाऽइव । तुर्वणिः । अहा । विश्वाऽइव । तुर्वणिः ॥
sū́raḥ ǀ cakrám ǀ prá ǀ vṛhat ǀ jātáḥ ǀ ójasā ǀ pra-pitvé ǀ vā́cam ǀ aruṇáḥ ǀ muṣāyati ǀ īśānáḥ ǀ ā́ ǀ muṣāyati ǀ
uśánā ǀ yát ǀ parā-vátaḥ ǀ ájagan ǀ ūtáye ǀ kave ǀ
sumnā́ni ǀ víśvā ǀ mánuṣā-iva ǀ turváṇiḥ ǀ áhā ǀ víśvā-iva ǀ turváṇiḥ ǁ
sūraḥ ǀ cakram ǀ pra ǀ vṛhat ǀ jātaḥ ǀ ojasā ǀ pra-pitve ǀ vācam ǀ aruṇaḥ ǀ muṣāyati ǀ īśānaḥ ǀ ā ǀ muṣāyati ǀ
uśanā ǀ yat ǀ parā-vataḥ ǀ ajagan ǀ ūtaye ǀ kave ǀ
sumnāni ǀ viśvā ǀ manuṣā-iva ǀ turvaṇiḥ ǀ ahā ǀ viśvā-iva ǀ turvaṇiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.130.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.19.04
- Maṇḍala · Anuvāka · Ṛk
- 1.19.039
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi, Triṣṭubh
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.