Ṛk 1.55.6
Saṃhitā
स हि श्र॑व॒स्युः सद॑नानि कृ॒त्रिमा॑ क्ष्म॒या वृ॑धा॒न ओज॑सा विना॒शय॑न् ।
ज्योतीं॑षि कृ॒ण्वन्न॑वृ॒काणि॒ यज्य॒वेऽव॑ सु॒क्रतुः॒ सर्त॒वा अ॒पः सृ॑जत् ॥
स हि श्रवस्युः सदनानि कृत्रिमा क्ष्मया वृधान ओजसा विनाशयन् |
ज्योतींषि कृण्वन्न् अवृकाणि यज्यवे ऽव सुक्रतुः सर्तवा अपः सृजत् ||
sá hí śravasyúḥ sádanāni kṛtrímā kṣmayā́ vṛdhāná ójasā vināśáyan ǀ
jyótīṃṣi kṛṇvánnavṛkā́ṇi yájyavé’va sukrátuḥ sártavā́ apáḥ sṛjat ǁ
sa hi śravasyuḥ sadanāni kṛtrimā kṣmayā vṛdhāna ojasā vināśayan |
jyotīṃṣi kṛṇvann avṛkāṇi yajyave 'va sukratuḥ sartavā apaḥ sṛjat ||
Padapāṭha
सः । हि । श्र॒व॒स्युः । सद॑नानि । कृ॒त्रिमा॑ । क्ष्म॒या । वृ॒धा॒नः । ओज॑सा । वि॒ऽना॒शय॑न् ।
ज्योतीं॑षि । कृ॒ण्वन् । अ॒वृ॒काणि॑ । यज्य॑वे । अव॑ । सु॒ऽक्रतुः॑ । सर्त॒वै । अ॒पः । सृ॒ज॒त् ॥
सः । हि । श्रवस्युः । सदनानि । कृत्रिमा । क्ष्मया । वृधानः । ओजसा । विऽनाशयन् ।
ज्योतींषि । कृण्वन् । अवृकाणि । यज्यवे । अव । सुऽक्रतुः । सर्तवै । अपः । सृजत् ॥
sáḥ ǀ hí ǀ śravasyúḥ ǀ sádanāni ǀ kṛtrímā ǀ kṣmayā́ ǀ vṛdhānáḥ ǀ ójasā ǀ vi-nāśáyan ǀ
jyótīṃṣi ǀ kṛṇván ǀ avṛkā́ṇi ǀ yájyave ǀ áva ǀ su-krátuḥ ǀ sártavái ǀ apáḥ ǀ sṛjat ǁ
saḥ ǀ hi ǀ śravasyuḥ ǀ sadanāni ǀ kṛtrimā ǀ kṣmayā ǀ vṛdhānaḥ ǀ ojasā ǀ vi-nāśayan ǀ
jyotīṃṣi ǀ kṛṇvan ǀ avṛkāṇi ǀ yajyave ǀ ava ǀ su-kratuḥ ǀ sartavai ǀ apaḥ ǀ sṛjat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.055.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.20.01
- Maṇḍala · Anuvāka · Ṛk
- 1.10.058
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Savya Āṅgirasa
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.