Ṛgveda · Maṇḍala 1 · Sūkta 152
Ṛk 1.152.5
Saṃhitā
अ॒न॒श्वो जा॒तो अ॑नभी॒शुरर्वा॒ कनि॑क्रदत्पतयदू॒र्ध्वसा॑नुः ।
अ॒चित्तं॒ ब्रह्म॑ जुजुषु॒र्युवा॑नः॒ प्र मि॒त्रे धाम॒ वरु॑णे गृ॒णंतः॑ ॥
अनश्वो जातो अनभीशुर् अर्वा कनिक्रदत् पतयद् ऊर्ध्वसानुः |
अचित्तम् ब्रह्म जुजुषुर् युवानः प्र मित्रे धाम वरुणे गृणन्तः ||
anaśvó jātó anabhīśúrárvā kánikradatpatayadūrdhvásānuḥ ǀ
acíttam bráhma jujuṣuryúvānaḥ prá mitré dhā́ma váruṇe gṛṇántaḥ ǁ
anaśvo jāto anabhīśur arvā kanikradat patayad ūrdhvasānuḥ |
acittam brahma jujuṣur yuvānaḥ pra mitre dhāma varuṇe gṛṇantaḥ ||
Padapāṭha
अ॒न॒श्वः । जा॒तः । अ॒न॒भी॒शुः । अर्वा॑ । कनि॑क्रदत् । प॒त॒य॒त् । ऊ॒र्ध्वऽसा॑नुः ।
अ॒चित्त॑म् । ब्रह्म॑ । जु॒जु॒षुः॒ । युवा॑नः । प्र । मि॒त्रे । धाम॑ । वरु॑णे । गृ॒णन्तः॑ ॥
अनश्वः । जातः । अनभीशुः । अर्वा । कनिक्रदत् । पतयत् । ऊर्ध्वऽसानुः ।
अचित्तम् । ब्रह्म । जुजुषुः । युवानः । प्र । मित्रे । धाम । वरुणे । गृणन्तः ॥
anaśváḥ ǀ jātáḥ ǀ anabhīśúḥ ǀ árvā ǀ kánikradat ǀ patayat ǀ ūrdhvá-sānuḥ ǀ
acíttam ǀ bráhma ǀ jujuṣuḥ ǀ yúvānaḥ ǀ prá ǀ mitré ǀ dhā́ma ǀ váruṇe ǀ gṛṇántaḥ ǁ
anaśvaḥ ǀ jātaḥ ǀ anabhīśuḥ ǀ arvā ǀ kanikradat ǀ patayat ǀ ūrdhva-sānuḥ ǀ
acittam ǀ brahma ǀ jujuṣuḥ ǀ yuvānaḥ ǀ pra ǀ mitre ǀ dhāma ǀ varuṇe ǀ gṛṇantaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.152.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.2.22.05
- Maṇḍala · Anuvāka · Ṛk
- 1.21.096
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.