Ṛgveda · Maṇḍala 1 · Sūkta 152
Ṛk 1.152.3
Saṃhitā
अ॒पादे॑ति प्रथ॒मा प॒द्वती॑नां॒ कस्तद्वां॑ मित्रावरु॒णा चि॑केत ।
गर्भो॑ भा॒रं भ॑र॒त्या चि॑दस्य ऋ॒तं पिप॒र्त्यनृ॑तं॒ नि ता॑रीत् ॥
अपाद् एति प्रथमा पद्वतीनां कस् तद् वाम् मित्रावरुणा चिकेत |
गर्भो भारम् भरत्य् आ चिद् अस्य ऋतम् पिपर्त्य् अनृतं नि तारीत् ||
apā́deti prathamā́ padvátīnām kástádvām mitrāvaruṇā́ ciketa ǀ
gárbho bhārám bharatyā́ cidasya ṛtám pípartyánṛtam ní tārīt ǁ
apād eti prathamā padvatīnāṃ kas tad vām mitrāvaruṇā ciketa |
garbho bhāram bharaty ā cid asya ṛtam piparty anṛtaṃ ni tārīt ||
Padapāṭha
अ॒पात् । ए॒ति॒ । प्र॒थ॒मा । प॒त्ऽवती॑नाम् । कः । तत् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । आ । चि॒के॒त॒ ।
गर्भः॑ । भा॒रम् । भ॒र॒ति॒ । आ । चि॒त् । अ॒स्य॒ । ऋ॒तम् । पिप॑र्ति । अनृ॑तम् । नि । ता॒री॒त् ॥
अपात् । एति । प्रथमा । पत्ऽवतीनाम् । कः । तत् । वाम् । मित्रावरुणा । आ । चिकेत ।
गर्भः । भारम् । भरति । आ । चित् । अस्य । ऋतम् । पिपर्ति । अनृतम् । नि । तारीत् ॥
apā́t ǀ eti ǀ prathamā́ ǀ pat-vátīnām ǀ káḥ ǀ tát ǀ vām ǀ mitrāvaruṇā ǀ ā́ ǀ ciketa ǀ
gárbhaḥ ǀ bhārám ǀ bharati ǀ ā́ ǀ cit ǀ asya ǀ ṛtám ǀ píparti ǀ ánṛtam ǀ ní ǀ tārīt ǁ
apāt ǀ eti ǀ prathamā ǀ pat-vatīnām ǀ kaḥ ǀ tat ǀ vām ǀ mitrāvaruṇā ǀ ā ǀ ciketa ǀ
garbhaḥ ǀ bhāram ǀ bharati ǀ ā ǀ cit ǀ asya ǀ ṛtam ǀ piparti ǀ anṛtam ǀ ni ǀ tārīt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.152.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.2.22.03
- Maṇḍala · Anuvāka · Ṛk
- 1.21.094
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.