Ṛgveda · Maṇḍala 1 · Sūkta 67

Ṛk 1.67.6

Agni · Parāśara Śāktya

The whole sūkta Link

Saṃhitā

प्रि॒या प॒दानि॑ प॒श्वो नि पा॑हि वि॒श्वायु॑रग्ने गु॒हा गुहं॑ गाः ॥

प्रिया पदानि पश्वो नि पाहि विश्वायुर् अग्ने गुहा गुहं गाः ||

priyā́ padā́ni paśvó ní pāhi viśvā́yuragne guhā́ gúham gāḥ ǁ

priyā padāni paśvo ni pāhi viśvāyur agne guhā guhaṃ gāḥ ||

Padapāṭha

प्रि॒या । प॒दानि॑ । प॒श्वः । नि । पा॒हि॒ । वि॒श्वऽआ॑युः । अ॒ग्ने॒ । गु॒हा । गुह॑म् । गाः॒ ॥

प्रिया । पदानि । पश्वः । नि । पाहि । विश्वऽआयुः । अग्ने । गुहा । गुहम् । गाः ॥

priyā́ ǀ padā́ni ǀ paśváḥ ǀ ní ǀ pāhi ǀ viśvá-āyuḥ ǀ agne ǀ guhā́ ǀ gúham ǀ gāḥ ǁ

priyā ǀ padāni ǀ paśvaḥ ǀ ni ǀ pāhi ǀ viśva-āyuḥ ǀ agne ǀ guhā ǀ guham ǀ gāḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
01.067.06
Aṣṭaka · Adhyāya · Varga · Ṛk
1.5.11.06
Maṇḍala · Anuvāka · Ṛk
1.12.026
Devatā देवता
Agni
Ṛṣi ऋषि
Parāśara Śāktya
Chandas छन्दस्
Dvipadā Virāj
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.67.6

Interpretations

Sāyaṇa

अजो न । अजति गच्छतीत्यजः सूर्यः । यद्वा । न जायत इत्यजः । जन्मरहित इत्यर्थः । स इव । क्षेति पृथिवीनाम । क्षां भूमिं दाधार । अयमग्निः प्रकाशकत्वेन धारयति । पृथिवीत्यंतरिक्षनाम । पृथिवीमंतरिक्षं च धारयतीत्येव । द्यां द्युलोकं सत्यैरवितथार्थैर्मंत्रॆैस्तस्तंभ । स्तभ्नाति । यथाधो न पतति उपर्येव तिष्ठति तथा करोतीत्यर्थः । मंत्रैर्दिवो धारणं तैत्तरीये समाम्नातं । देवा वा आदित्यस्य सुवर्गलोकस्य पराचोऽतिपातादबिभयुः । तं छंदोभिरदृहन्धृत्या इति । यद्वा । सत्यैर्मंत्रैः स्तूयमानोऽग्निर्द्यां तस्तंभेति । हे अग्ने विश्वायुः विश्वं सर्वमायुरन्नं यस्य स त्वं पश्वः पशोः प्रिया प्रियाणि पदानि शोभनतृणोदकोपेतानि स्थानानि नि पाहि । नितरां पालय । माधाक्षीरित्यर्थः । तर्हि कुत्र निवसामीति चेत् तत्राह । गुहा गुहाया अपि गुहं गुहां गवां संचारयोग्यस्थानं गाः । गच्छ । तत्रैव निवसेत्यर्थः ॥ पश्वः । जसादिषु च्छंदसि वावचनमिति घेर्ङितीति गुणाभावे यणादेशः । उदात्तयण इति विभक्तेरुदात्तत्वं । गुहा । सुपां सुलुगिति पंचम्या आजादेशः । चित्त्वादंतोदात्तत्वं । गुहं व्यत्ययेन ह्रस्वत्वं । गाः । छांदसो लुङ् । इणो गा लुङीति गादेशः ॥ ५ ॥ ६ ॥