Ṛgveda · Maṇḍala 1 · Sūkta 67

Ṛk 1.67.8

Agni · Parāśara Śāktya

The whole sūkta Link

Saṃhitā

वि ये चृ॒तंत्यृ॒ता सपं॑त॒ आदिद्वसू॑नि॒ प्र व॑वाचास्मै ॥

वि ये चृतन्त्य् ऋता सपन्त आद् इद् वसूनि प्र ववाचास्मै ||

ví yé cṛtántyṛtā́ sápanta ā́dídvásūni prá vavācāsmai ǁ

vi ye cṛtanty ṛtā sapanta ād id vasūni pra vavācāsmai ||

Padapāṭha

वि । ये । चृ॒तन्ति॑ । ऋ॒ता । सप॑न्तः । आत् । इत् । वसू॑नि । प्र । व॒वा॒च॒ । अ॒स्मै॒ ॥

वि । ये । चृतन्ति । ऋता । सपन्तः । आत् । इत् । वसूनि । प्र । ववाच । अस्मै ॥

ví ǀ yé ǀ cṛtánti ǀ ṛtā́ ǀ sápantaḥ ǀ ā́t ǀ ít ǀ vásūni ǀ prá ǀ vavāca ǀ asmai ǁ

vi ǀ ye ǀ cṛtanti ǀ ṛtā ǀ sapantaḥ ǀ āt ǀ it ǀ vasūni ǀ pra ǀ vavāca ǀ asmai ǁ

References

Maṇḍala · Sūkta · Ṛk
01.067.08
Aṣṭaka · Adhyāya · Varga · Ṛk
1.5.11.08
Maṇḍala · Anuvāka · Ṛk
1.12.028
Devatā देवता
Agni
Ṛṣi ऋषि
Parāśara Śāktya
Chandas छन्दस्
Dvipadā Virāj
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.67.8

Interpretations

Sāyaṇa

यः पुमान् ईमेनं गुहा भवंतं गुहायां संतमग्निं चिकेत जानाति । यश्च ऋतस्य सत्यस्य यज्ञस्य वा धारां धारायितारमेनमग्निना ससाद आसीदति । उपास्त इत्यर्थः । ये च ऋता ऋतानि सत्यानि यज्ञान्वा सपंतः समवयंतः स्पृशंतो वा पुरुषा एतमग्निं वि चृतंति अग्निमुद्दिश्य स्तुतीर्ग्रथ्नंति । कुर्वंतीत्यर्थः । आदित् स्तुत्यनंतरमेवास्मै सर्वस्मै स्तोतृजनाय वसूनि धनानि प्र ववाच । प्रकथयति ॥ चिकेत । कित ज्ञाने । लिट णलि लित्स्वरः । चृतंति । चृती हिंसाग्रंथनयोः । तौदादिकः । लसार्वधातुकानुदात्तत्वे विकरणस्वरः शिष्यते । ववाच । लिट ब्रुवो वचिः । लिट्यभ्यासस्योभयेषां । पा ६-१-१७ । इत्यभ्यासस्य संप्रसारणं । संप्रसारणाच्चेति परपूर्वत्वस्य वा छंदसि । पा ६-१-११६ । इति विकल्पनाद्यणादेशः ॥ ७ ॥ ८ ॥