Ṛgveda · Maṇḍala 1 · Sūkta 67

Ṛk 1.67.10

Agni · Parāśara Śāktya

The whole sūkta Link

Saṃhitā

चित्ति॑र॒पां दमे॑ वि॒श्वायुः॒ सद्मे॑व॒ धीराः॑ स॒म्माय॑ चक्रुः ॥

चित्तिर् अपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः ||

cíttirapā́m dáme viśvā́yuḥ sádmeva dhī́rāḥ sammā́ya cakruḥ ǁ

cittir apāṃ dame viśvāyuḥ sadmeva dhīrāḥ sammāya cakruḥ ||

Padapāṭha

चित्तिः॑ । अ॒पाम् । दमे॑ । वि॒श्वऽआ॑युः । सद्म॑ऽइव । धीराः॑ । स॒म्ऽमाय॑ । च॒क्रुः॒ ॥

चित्तिः । अपाम् । दमे । विश्वऽआयुः । सद्मऽइव । धीराः । सम्ऽमाय । चक्रुः ॥

cíttiḥ ǀ apā́m ǀ dáme ǀ viśvá-āyuḥ ǀ sádma-iva ǀ dhī́rāḥ ǀ sam-mā́ya ǀ cakruḥ ǁ

cittiḥ ǀ apām ǀ dame ǀ viśva-āyuḥ ǀ sadma-iva ǀ dhīrāḥ ǀ sam-māya ǀ cakruḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
01.067.10
Aṣṭaka · Adhyāya · Varga · Ṛk
1.5.11.10
Maṇḍala · Anuvāka · Ṛk
1.12.030
Devatā देवता
Agni
Ṛṣi ऋषि
Parāśara Śāktya
Chandas छन्दस्
Dvipadā Virāj
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.67.10

Interpretations

Sāyaṇa

योऽग्निर्वीरुत्स्वोषधीषु महित्वा यानि महत्त्वानि संति तानि विरोधत् विरुणद्धि विशेषेणावृणोति नावशेषयति । उतापि च प्रजाः प्रकर्षेणोत्पन्नाः पुष्पफलादिलक्षणाः प्रसूषूत्पादयित्रीषु मातृस्थानीयास्वोषधीष्वंतर्मध्ये विरुणद्धीत्येव । द्वितीय उतशब्दः पादपूरणः । तथा चित्तिश्चेतयिता ज्ञापयितापां दमे जलानां मध्यभूते गृहे विश्वायुः सर्वान्नो योऽग्निर्वर्तत इति शेषः । तमग्निं धीरा मेधाविनः संमाय संमाननं पूजनं कृत्वा । स्तुतिभिः स्तुत्वेत्यर्थः । चक्रुः । कर्माणि कुवंति । तत्र दृष्टांतः । सद्मेव । यथा सदनं गृहं प्रथमतः संपूज्य पश्चात्तत्र कर्माण्याचरंति तद्वत् ॥ वीरुत्सु । विपूर्वाद्रोहतेः क्विप् । न्यंक्वादिषु वीरुध् । पा ७-३-५३ । इति पठितत्वादुपसर्गस्य दीर्घो धकारश्चांतादेशः । उक्तं च । वीरुध ओषधयो भवंति । नि ६-३ । रोधत् । रुधिर् आवरणे । लेट्यडागमः । इतश्च लोप इतीकारलोपः । संमाय माङ् माने शब्दे च । समासेऽनञ्पूर्वे क्त्वो ल्यप् । ७-१-३७ । न ल्यपि । पा ६-४-६९ । इतीत्व प्रतिषेधः ॥ ९ ॥ १० ॥