Ṛgveda · Maṇḍala 1 · Sūkta 154
Ṛk 1.154.2
Saṃhitā
प्र तद्विष्णुः॑ स्तवते वी॒र्ये॑ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः ।
यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यंति॒ भुव॑नानि॒ विश्वा॑ ॥
प्र तद् विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः |
यस्योरुषु त्रिषु विक्रमणेष्व् अधिक्षियन्ति भुवनानि विश्वा ||
prá tádvíṣṇuḥ stavate vīryéṇa mṛgó ná bhīmáḥ kucaró giriṣṭhā́ḥ ǀ
yásyorúṣu triṣú vikrámaṇeṣvadhikṣiyánti bhúvanāni víśvā ǁ
pra tad viṣṇu stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ |
yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā ||
Padapāṭha
प्र । तत् । विष्णुः॑ । स्त॒व॒ते॒ । वी॒र्ये॑ण । मृ॒गः । न । भी॒मः । कु॒च॒रः । गि॒रि॒ऽस्थाः ।
यस्य॑ । उ॒रुषु॑ । त्रि॒षु । वि॒ऽक्रम॑णेषु । अ॒धि॒ऽक्षि॒यन्ति॑ । भुव॑नानि । विश्वा॑ ॥
प्र । तत् । विष्णुः । स्तवते । वीर्येण । मृगः । न । भीमः । कुचरः । गिरिऽस्थाः ।
यस्य । उरुषु । त्रिषु । विऽक्रमणेषु । अधिऽक्षियन्ति । भुवनानि । विश्वा ॥
prá ǀ tát ǀ víṣṇuḥ ǀ stavate ǀ vīryéṇa ǀ mṛgáḥ ǀ ná ǀ bhīmáḥ ǀ kucaráḥ ǀ giri-sthā́ḥ ǀ
yásya ǀ urúṣu ǀ triṣú ǀ vi-krámaṇeṣu ǀ adhi-kṣiyánti ǀ bhúvanāni ǀ víśvā ǁ
pra ǀ tat ǀ viṣṇuḥ ǀ stavate ǀ vīryeṇa ǀ mṛgaḥ ǀ na ǀ bhīmaḥ ǀ kucaraḥ ǀ giri-sthāḥ ǀ
yasya ǀ uruṣu ǀ triṣu ǀ vi-kramaṇeṣu ǀ adhi-kṣiyanti ǀ bhuvanāni ǀ viśvā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.154.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.2.24.02
- Maṇḍala · Anuvāka · Ṛk
- 1.21.104
- Devatā देवता
- Viṣṇu
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.