Ṛgveda · Maṇḍala 1 · Sūkta 176
Ṛk 1.176.4
Saṃhitā
असु॑न्वंतं समं जहि दू॒णाशं॒ यो न ते॒ मयः॑ ।
अ॒स्मभ्य॑मस्य॒ वेद॑नं द॒द्धि सू॒रिश्चि॑दोहते ॥
असुन्वन्तं समं जहि दूणाशं यो न ते मयः |
अस्मभ्यम् अस्य वेदनं दद्धि सूरिश् चिद् ओहते ||
ásunvantam samam jahi dūṇā́śam yó ná te máyaḥ ǀ
asmábhyamasya védanam daddhí sūríścidohate ǁ
asunvantaṃ samaṃ jahi dūṇāśaṃ yo na te mayaḥ |
asmabhyam asya vedanaṃ daddhi sūriś cid ohate ||
Padapāṭha
असु॑न्वन्तम् । स॒म॒म् । ज॒हि॒ । दुः॒ऽनश॑म् । यः । न । ते॒ । मयः॑ ।
अ॒स्मभ्य॑म् । अ॒स्य॒ । वेद॑नम् । द॒द्धि । सू॒रिः । चि॒त् । ओ॒ह॒ते॒ ॥
असुन्वन्तम् । समम् । जहि । दुःऽनशम् । यः । न । ते । मयः ।
अस्मभ्यम् । अस्य । वेदनम् । दद्धि । सूरिः । चित् । ओहते ॥
ásunvantam ǀ samam ǀ jahi ǀ duḥ-náśam ǀ yáḥ ǀ ná ǀ te ǀ máyaḥ ǀ
asmábhyam ǀ asya ǀ védanam ǀ daddhí ǀ sūríḥ ǀ cit ǀ ohate ǁ
asunvantam ǀ samam ǀ jahi ǀ duḥ-naśam ǀ yaḥ ǀ na ǀ te ǀ mayaḥ ǀ
asmabhyam ǀ asya ǀ vedanam ǀ daddhi ǀ sūriḥ ǀ cit ǀ ohate ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.176.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.19.04
- Maṇḍala · Anuvāka · Ṛk
- 1.23.106
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.