Ṛgveda · Maṇḍala 1 · Sūkta 176
Ṛk 1.176.2
Saṃhitā
तस्मि॒न्ना वे॑शया॒ गिरो॒ य एक॑श्चर्षणी॒नां ।
अनु॑ स्व॒धा यमु॒प्यते॒ यवं॒ न चर्कृ॑ष॒द्वृषा॑ ॥
तस्मिन्न् आ वेशया गिरो य एकश् चर्षणीनाम् |
अनु स्वधा यम् उप्यते यवं न चर्कृषद् वृषा ||
tásminnā́ veśayā gíro yá ékaścarṣaṇīnā́m ǀ
ánu svadhā́ yámupyáte yávam ná cárkṛṣadvṛ́ṣā ǁ
tasminn ā veśayā giro ya ekaś carṣaṇīnām |
anu svadhā yam upyate yavaṃ na carkṛṣad vṛṣā ||
Padapāṭha
तस्मि॑न् । आ । वे॒श॒य॒ । गिरः॑ । यः । एकः॑ । च॒र्ष॒णी॒नाम् ।
अनु॑ । स्व॒धा । यम् । उ॒प्यते॑ । यव॑म् । न । चर्कृ॑षत् । वृषा॑ ॥
तस्मिन् । आ । वेशय । गिरः । यः । एकः । चर्षणीनाम् ।
अनु । स्वधा । यम् । उप्यते । यवम् । न । चर्कृषत् । वृषा ॥
tásmin ǀ ā́ ǀ veśaya ǀ gíraḥ ǀ yáḥ ǀ ékaḥ ǀ carṣaṇīnā́m ǀ
ánu ǀ svadhā́ ǀ yám ǀ upyáte ǀ yávam ǀ ná ǀ cárkṛṣat ǀ vṛ́ṣā ǁ
tasmin ǀ ā ǀ veśaya ǀ giraḥ ǀ yaḥ ǀ ekaḥ ǀ carṣaṇīnām ǀ
anu ǀ svadhā ǀ yam ǀ upyate ǀ yavam ǀ na ǀ carkṛṣat ǀ vṛṣā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.176.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.19.02
- Maṇḍala · Anuvāka · Ṛk
- 1.23.104
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.