Ṛgveda · Maṇḍala 1 · Sūkta 68

Ṛk 1.68.8

Agni · Parāśara Śāktya

The whole sūkta Link

Saṃhitā

इ॒च्छंत॒ रेतो॑ मि॒थस्त॒नूषु॒ सं जा॑नत॒ स्वैर्दक्षै॒रमू॑राः ॥

इच्छन्त रेतो मिथस् तनूषु सं जानत स्वैर् दक्षैर् अमूराः ||

icchánta réto mithástanū́ṣu sám jānata sváirdákṣairámūrāḥ ǁ

icchanta reto mithas tanūṣu saṃ jānata svair dakṣair amūrāḥ ||

Padapāṭha

इ॒च्छन्त॑ । रेतः॑ । मि॒थः । त॒नूषु॑ । सम् । जा॒न॒त॒ । स्वैः । दक्षैः॑ । अमू॑राः ॥

इच्छन्त । रेतः । मिथः । तनूषु । सम् । जानत । स्वैः । दक्षैः । अमूराः ॥

icchánta ǀ rétaḥ ǀ mitháḥ ǀ tanū́ṣu ǀ sám ǀ jānata ǀ sváiḥ ǀ dákṣaiḥ ǀ ámūrāḥ ǁ

icchanta ǀ retaḥ ǀ mithaḥ ǀ tanūṣu ǀ sam ǀ jānata ǀ svaiḥ ǀ dakṣaiḥ ǀ amūrāḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
01.068.08
Aṣṭaka · Adhyāya · Varga · Ṛk
1.5.12.08
Maṇḍala · Anuvāka · Ṛk
1.12.038
Devatā देवता
Agni
Ṛṣi ऋषि
Parāśara Śāktya
Chandas छन्दस्
Dvipadā Virāj
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.68.8

Interpretations

Sāyaṇa

हे अग्ने त्वं मनोरपत्ये यजमानस्वरूपायां प्रजायां होता देवानामह्वाता सन् निषत्तो निषण्णः । मानव्यो हि प्रजाः । तै सं ५-१-५-६ । इति हि ब्राह्मणं । स चिन्नु स एव त्वमासां प्रजानां रयिणां गवादीनां धनानामपि पतिः स्वामि । अतस्ताः प्रजास्तनूष्वात्मीयेषु शरीरेषु मिथः संसृष्टमेकीभूतं पुत्ररूपेण परिणतं रेतो वीर्यमिच्छंत । ऐच्छन् । त्वदनुग्रहेण पुत्रमलभंतेति यावत् । लब्धपुत्राश्छ ताः प्रजा अमूरा अमूढाः सत्यः स्वैः स्वकीयैर्दक्षैः समर्थैः पुत्रैः सह सं जानत । सम्यगवगच्छंति चिरकालं जीवंतीत्यर्थः । यद्वा । दक्षशब्दः प्राणवाची । प्राणो वै दक्षोऽपानः क्रतुरिति श्रुतेः । स्वैर्दक्षैः स्वकीयैः प्राणैरमूराः संगतास्त्वयैव सर्वं जानंति ॥ इच्छंत । व्यत्ययेनात्मनेपदं । जानत । छांदसो लङ् । झस्यादादेशे श्नाभ्यस्तयोरात इत्याकारलोपः । अमूराः । मूरा आमूरेत्यत्रयास्क एवं व्याचख्यौ । मूढा वयं स्मोऽमूढस्त्वमसि । नि ६-८ । इति । अतोऽत्राप्यमूरशब्देनामूढत्वमुच्यते । वर्णव्यापत्त्याढकारस्य रेफः । यद्वा । मुर्छा मोहनसमुच्छ्राययोः । अस्मात्संपदादिलक्षणो भावे क्विप् । राल्लोप इति छलोपः । रो मत्वथीयः । न मूरा आमूराः । अथवा । अम गत्यादिषु । अस्मादौणादिक ऊरन्प्रत्ययः ॥ ७ ॥ ८ ॥