Ṛk 1.36.10
Saṃhitā
यं त्वा॑ दे॒वासो॒ मन॑वे द॒धुरि॒ह यजि॑ष्ठं हव्यवाहन ।
यं कण्वो॒ मेध्या॑तिथिर्धन॒स्पृतं॒ यं वृषा॒ यमु॑पस्तु॒तः ॥
यं त्वा देवासो मनवे दधुर् इह यजिष्ठं हव्यवाहन |
यं कण्वो मेध्यातिथिर् धनस्पृतं यं वृषा यम् उपस्तुतः ||
yám tvā devā́so mánave dadhúrihá yájiṣṭham havyavāhana ǀ
yám káṇvo médhyātithirdhanaspṛ́tam yám vṛ́ṣā yámupastutáḥ ǁ
yaṃ tvā devāso manave dadhur iha yajiṣṭhaṃ havyavāhana |
yaṃ kaṇvo medhyātithir dhanaspṛtaṃ yaṃ vṛṣā yam upastutaḥ ||
Padapāṭha
यम् । त्वा॒ । दे॒वासः॑ । मन॑वे । द॒धुः । इ॒ह । यजि॑ष्ठम् । ह॒व्य॒ऽवा॒ह॒न॒ ।
यम् । कण्वः॑ । मेध्य॑ऽअतिथिः । ध॒न॒ऽस्पृत॑म् । यम् । वृषा॑ । यम् । उ॒प॒ऽस्तु॒तः ॥
यम् । त्वा । देवासः । मनवे । दधुः । इह । यजिष्ठम् । हव्यऽवाहन ।
यम् । कण्वः । मेध्यऽअतिथिः । धनऽस्पृतम् । यम् । वृषा । यम् । उपऽस्तुतः ॥
yám ǀ tvā ǀ devā́saḥ ǀ mánave ǀ dadhúḥ ǀ ihá ǀ yájiṣṭham ǀ havya-vāhana ǀ
yám ǀ káṇvaḥ ǀ médhya-atithiḥ ǀ dhana-spṛ́tam ǀ yám ǀ vṛ́ṣā ǀ yám ǀ upa-stutáḥ ǁ
yam ǀ tvā ǀ devāsaḥ ǀ manave ǀ dadhuḥ ǀ iha ǀ yajiṣṭham ǀ havya-vāhana ǀ
yam ǀ kaṇvaḥ ǀ medhya-atithiḥ ǀ dhana-spṛtam ǀ yam ǀ vṛṣā ǀ yam ǀ upa-stutaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.036.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.3.09.05
- Maṇḍala · Anuvāka · Ṛk
- 01.08.010
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Kaṇva Ghaura
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.