Ṛk 1.36.6
Saṃhitā
त्वे इद॑ग्ने सु॒भगे॑ यविष्ठ्य॒ विश्व॒मा हू॑यते ह॒विः ।
स त्वं नो॑ अ॒द्य सु॒मना॑ उ॒ताप॒रं यक्षि॑ दे॒वान्त्सु॒वीर्या॑ ॥
त्वे इद् अग्ने सुभगे यविष्ठ्य विश्वम् आ हूयते हविः |
स त्वं नो अद्य सुमना उतापरं यक्षि देवान् सुवीर्या ||
tvé ídagne subháge yaviṣṭhya víśvamā́ hūyate havíḥ ǀ
sá tvám no adyá sumánā utā́parám yákṣi devā́ntsuvī́ryā ǁ
tve id agne subhage yaviṣṭhya viśvam ā hūyate haviḥ |
sa tvaṃ no adya sumanā utāparaṃ yakṣi devān suvīryā ||
Padapāṭha
त्वे इति॑ । इत् । अ॒ग्ने॒ । सु॒ऽभगे॑ । य॒वि॒ष्ठ्य॒ । विश्व॑म् । आ । हू॒य॒ते॒ । ह॒विः ।
सः । त्वम् । नः॒ । अ॒द्य । सु॒ऽमनाः॑ । उ॒त । अ॒प॒रम् । यक्षि॑ । दे॒वान् । सु॒ऽवीर्या॑ ॥
त्वे इति । इत् । अग्ने । सुऽभगे । यविष्ठ्य । विश्वम् । आ । हूयते । हविः ।
सः । त्वम् । नः । अद्य । सुऽमनाः । उत । अपरम् । यक्षि । देवान् । सुऽवीर्या ॥
tvé íti ǀ ít ǀ agne ǀ su-bháge ǀ yaviṣṭhya ǀ víśvam ǀ ā́ ǀ hūyate ǀ havíḥ ǀ
sáḥ ǀ tvám ǀ naḥ ǀ adyá ǀ su-mánāḥ ǀ utá ǀ aparám ǀ yákṣi ǀ devā́n ǀ su-vī́ryā ǁ
tve iti ǀ it ǀ agne ǀ su-bhage ǀ yaviṣṭhya ǀ viśvam ǀ ā ǀ hūyate ǀ haviḥ ǀ
saḥ ǀ tvam ǀ naḥ ǀ adya ǀ su-manāḥ ǀ uta ǀ aparam ǀ yakṣi ǀ devān ǀ su-vīryā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.036.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.3.09.01
- Maṇḍala · Anuvāka · Ṛk
- 01.08.006
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Kaṇva Ghaura
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.