Ṛk 1.36.19
Saṃhitā
नि त्वाम॑ग्ने॒ मनु॑र्दधे॒ ज्योति॒र्जना॑य॒ शश्व॑ते ।
दी॒देथ॒ कण्व॑ ऋ॒तजा॑त उक्षि॒तो यं न॑म॒स्यंति॑ कृ॒ष्टयः॑ ॥
नि त्वाम् अग्ने मनुर् दधे ज्योतिर् जनाय शश्वते |
दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः ||
ní tvā́magne mánurdadhe jyótirjánāya śáśvate ǀ
dīdétha káṇva ṛtájāta ukṣitó yám namasyánti kṛṣṭáyaḥ ǁ
ni tvām agne manur dadhe jyotir janāya śaśvate |
dīdetha kaṇva ṛtajāta ukṣito yaṃ namasyanti kṛṣṭayaḥ ||
Padapāṭha
नि । त्वाम् । अ॒ग्ने॒ । मनुः॑ । द॒धे॒ । ज्योतिः॑ । जना॑य । शश्व॑ते ।
दी॒देथ॑ । कण्वे॑ । ऋ॒तऽजा॑तः । उ॒क्षि॒तः । यम् । न॒म॒स्यन्ति॑ । कृ॒ष्टयः॑ ॥
नि । त्वाम् । अग्ने । मनुः । दधे । ज्योतिः । जनाय । शश्वते ।
दीदेथ । कण्वे । ऋतऽजातः । उक्षितः । यम् । नमस्यन्ति । कृष्टयः ॥
ní ǀ tvā́m ǀ agne ǀ mánuḥ ǀ dadhe ǀ jyótiḥ ǀ jánāya ǀ śáśvate ǀ
dīdétha ǀ káṇve ǀ ṛtá-jātaḥ ǀ ukṣitáḥ ǀ yám ǀ namasyánti ǀ kṛṣṭáyaḥ ǁ
ni ǀ tvām ǀ agne ǀ manuḥ ǀ dadhe ǀ jyotiḥ ǀ janāya ǀ śaśvate ǀ
dīdetha ǀ kaṇve ǀ ṛta-jātaḥ ǀ ukṣitaḥ ǀ yam ǀ namasyanti ǀ kṛṣṭayaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.036.19
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.3.11.04
- Maṇḍala · Anuvāka · Ṛk
- 01.08.019
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Kaṇva Ghaura
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.