Ṛk 1.36.16
Saṃhitā
घ॒नेव॒ विष्व॒ग्वि ज॒ह्यरा॑व्ण॒स्तपु॑र्जंभ॒ यो अ॑स्म॒ध्रुक् ।
यो मर्त्यः॒ शिशी॑ते॒ अत्य॒क्तुभि॒र्मा नः॒ स रि॒पुरी॑शत ॥
घनेव विष्वग् वि जह्य् अराव्णस् तपुर्जम्भ यो अस्मध्रुक् |
यो मर्त्यः शिशीते अत्य् अक्तुभिर् मा नः स रिपुर् ईशत ||
ghanéva víṣvagví jahyárāvṇastápurjambha yó asmadhrúk ǀ
yó mártyaḥ śíśīte átyaktúbhirmā́ naḥ sá ripúrīśata ǁ
ghaneva viṣvag vi jahy arāvṇas tapurjambha yo asmadhruk |
yo martyaḥ śiśīte aty aktubhir mā naḥ sa ripur īśata ||
Padapāṭha
घ॒नाऽइ॑व । विष्व॑क् । वि । ज॒हि॒ । अरा॑व्णः । तपुः॑ऽजम्भ । यः । अ॒स्म॒ऽध्रुक् ।
यः । मर्त्यः॑ । शिशी॑ते । अति॑ । अ॒क्तुऽभिः॑ । मा । नः॒ । सः । रि॒पुः । ई॒श॒त॒ ॥
घनाऽइव । विष्वक् । वि । जहि । अराव्णः । तपुःऽजम्भ । यः । अस्मऽध्रुक् ।
यः । मर्त्यः । शिशीते । अति । अक्तुऽभिः । मा । नः । सः । रिपुः । ईशत ॥
ghanā́-iva ǀ víṣvak ǀ ví ǀ jahi ǀ árāvṇaḥ ǀ tápuḥ-jambha ǀ yáḥ ǀ asma-dhrúk ǀ
yáḥ ǀ mártyaḥ ǀ śíśīte ǀ áti ǀ aktú-bhiḥ ǀ mā́ ǀ naḥ ǀ sáḥ ǀ ripúḥ ǀ īśata ǁ
ghanā-iva ǀ viṣvak ǀ vi ǀ jahi ǀ arāvṇaḥ ǀ tapuḥ-jambha ǀ yaḥ ǀ asma-dhruk ǀ
yaḥ ǀ martyaḥ ǀ śiśīte ǀ ati ǀ aktu-bhiḥ ǀ mā ǀ naḥ ǀ saḥ ǀ ripuḥ ǀ īśata ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.036.16
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.3.11.01
- Maṇḍala · Anuvāka · Ṛk
- 01.08.016
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Kaṇva Ghaura
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.