Ṛk 1.36.8
Saṃhitā
घ्नंतो॑ वृ॒त्रम॑तर॒न्रोद॑सी अ॒प उ॒रु क्षया॑य चक्रिरे ।
भुव॒त्कण्वे॒ वृषा॑ द्यु॒म्न्याहु॑तः॒ क्रंद॒दश्वो॒ गवि॑ष्टिषु ॥
घ्नन्तो वृत्रम् अतरन् रोदसी अप उरु क्षयाय चक्रिरे |
भुवत् कण्वे वृषा द्युम्न्य् आहुतः क्रन्दद् अश्वो गविष्टिषु ||
ghnánto vṛtrámataranródasī apá urú kṣáyāya cakrire ǀ
bhúvatkáṇve vṛ́ṣā dyumnyā́hutaḥ krándadáśvo gáviṣṭiṣu ǁ
ghnanto vṛtram ataran rodasī apa uru kṣayāya cakrire |
bhuvat kaṇve vṛṣā dyumny āhutaḥ krandad aśvo gaviṣṭiṣu ||
Padapāṭha
घ्नन्तः॑ । वृ॒त्रम् । अ॒त॒र॒न् । रोद॑सी॒ इति॑ । अ॒पः । उ॒रु । क्षया॑य । च॒क्रि॒रे॒ ।
भुव॑त् । कण्वे॑ । वृषा॑ । द्यु॒म्नी । आऽहु॑तः । क्रन्द॑त् । अश्वः॑ । गोऽइ॑ष्टिषु ॥
घ्नन्तः । वृत्रम् । अतरन् । रोदसी इति । अपः । उरु । क्षयाय । चक्रिरे ।
भुवत् । कण्वे । वृषा । द्युम्नी । आऽहुतः । क्रन्दत् । अश्वः । गोऽइष्टिषु ॥
ghnántaḥ ǀ vṛtrám ǀ ataran ǀ ródasī íti ǀ apáḥ ǀ urú ǀ kṣáyāya ǀ cakrire ǀ
bhúvat ǀ káṇve ǀ vṛ́ṣā ǀ dyumnī́ ǀ ā́-hutaḥ ǀ krándat ǀ áśvaḥ ǀ gó-iṣṭiṣu ǁ
ghnantaḥ ǀ vṛtram ǀ ataran ǀ rodasī iti ǀ apaḥ ǀ uru ǀ kṣayāya ǀ cakrire ǀ
bhuvat ǀ kaṇve ǀ vṛṣā ǀ dyumnī ǀ ā-hutaḥ ǀ krandat ǀ aśvaḥ ǀ go-iṣṭiṣu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.036.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.3.09.03
- Maṇḍala · Anuvāka · Ṛk
- 01.08.008
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Kaṇva Ghaura
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.