Ṛk 1.34.2
Saṃhitā
त्रयः॑ प॒वयो॑ मधु॒वाह॑ने॒ रथे॒ सोम॑स्य वे॒नामनु॒ विश्व॒ इद्वि॑दुः ।
त्रयः॑ स्कं॒भासः॑ स्कभि॒तास॑ आ॒रभे॒ त्रिर्नक्तं॑ या॒थस्त्रिर्व॑श्विना॒ दिवा॑ ॥
त्रयः पवयो मधुवाहने रथे सोमस्य वेनाम् अनु विश्व इद् विदुः |
त्रय स्कम्भास स्कभितास आरभे त्रिर् नक्तं याथस् त्रिर् व् अश्विना दिवा ||
tráyaḥ paváyo madhuvā́hane ráthe sómasya venā́mánu víśva ídviduḥ ǀ
tráyaḥ skambhā́saḥ skabhitā́sa ārábhe trírnáktam yāthástrírvaśvinā dívā ǁ
trayaḥ pavayo madhuvāhane rathe somasya venām anu viśva id viduḥ |
traya skambhāsa skabhitāsa ārabhe trir naktaṃ yāthas trir v aśvinā divā ||
Padapāṭha
त्रयः॑ । प॒वयः॑ । मधु॒ऽवाह॑ने । रथे॑ । सोम॑स्य । वे॒नाम् । अनु॑ । विश्वे॑ । इत् । वि॒दुः॒ ।
त्रयः॑ । स्क॒म्भासः॑ । स्क॒भि॒तासः॑ । आ॒ऽरभे॑ । त्रिः । नक्त॑म् । या॒थः । त्रिः । ऊं॒ इति॑ । अ॒श्वि॒ना॒ । दिवा॑ ॥
त्रयः । पवयः । मधुऽवाहने । रथे । सोमस्य । वेनाम् । अनु । विश्वे । इत् । विदुः ।
त्रयः । स्कम्भासः । स्कभितासः । आऽरभे । त्रिः । नक्तम् । याथः । त्रिः । ऊं इति । अश्विना । दिवा ॥
tráyaḥ ǀ paváyaḥ ǀ mádhu-vā́hane ǀ ráthe ǀ sómasya ǀ venā́m ǀ ánu ǀ víśve ǀ ít ǀ viduḥ ǀ
tráyaḥ ǀ skambhā́saḥ ǀ skabhitā́saḥ ǀ ā-rábhe ǀ tríḥ ǀ náktam ǀ yātháḥ ǀ tríḥ ǀ ūṃ íti ǀ aśvinā ǀ dívā ǁ
trayaḥ ǀ pavayaḥ ǀ madhu-vāhane ǀ rathe ǀ somasya ǀ venām ǀ anu ǀ viśve ǀ it ǀ viduḥ ǀ
trayaḥ ǀ skambhāsaḥ ǀ skabhitāsaḥ ǀ ā-rabhe ǀ triḥ ǀ naktam ǀ yāthaḥ ǀ triḥ ǀ ūṃ iti ǀ aśvinā ǀ divā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.034.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.3.04.02
- Maṇḍala · Anuvāka · Ṛk
- 01.07.050
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.