Ṛk 1.34.4
Saṃhitā
त्रिर्व॒र्तिर्या॑तं॒ त्रिरनु॑व्रते ज॒ने त्रिः सु॑प्रा॒व्ये॑ त्रे॒धेव॑ शिक्षतं ।
त्रिर्नां॒द्यं॑ वहतमश्विना यु॒वं त्रिः पृक्षो॑ अ॒स्मे अ॒क्षरे॑व पिन्वतं ॥
त्रिर् वर्तिर् यातं त्रिर् अनुव्रते जने त्रिः सुप्राव्ये त्रेधेव शिक्षतम् |
त्रिर् नान्द्यं वहतम् अश्विना युवं त्रिः पृक्षो अस्मे अक्षरेव पिन्वतम् ||
trírvartíryātam tríránuvrate jané tríḥ suprāvyé tredhéva śikṣatam ǀ
trírnāndyám vahatamaśvinā yuvám tríḥ pṛ́kṣo asmé akṣáreva pinvatam ǁ
trir vartir yātaṃ trir anuvrate jane triḥ suprāvye tredheva śikṣatam |
trir nāndyaṃ vahatam aśvinā yuvaṃ triḥ pṛkṣo asme akṣareva pinvatam ||
Padapāṭha
त्रिः । व॒र्तिः । या॒त॒म् । त्रिः । अनु॑ऽव्रते । जने॑ । त्रिः । सु॒प्र॒ऽअ॒व्ये॑ । त्रे॒धाऽइ॑व । शि॒क्ष॒त॒म् ।
त्रिः । ना॒न्द्य॑म् । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् । त्रिः । पृक्षः॑ । अ॒स्मे इति॑ । अ॒क्षरा॑ऽइव । पि॒न्व॒त॒म् ॥
त्रिः । वर्तिः । यातम् । त्रिः । अनुऽव्रते । जने । त्रिः । सुप्रऽअव्ये । त्रेधाऽइव । शिक्षतम् ।
त्रिः । नान्द्यम् । वहतम् । अश्विना । युवम् । त्रिः । पृक्षः । अस्मे इति । अक्षराऽइव । पिन्वतम् ॥
tríḥ ǀ vartíḥ ǀ yātam ǀ tríḥ ǀ ánu-vrate ǀ jáne ǀ tríḥ ǀ supra-avyé ǀ tredhā́-iva ǀ śikṣatam ǀ
tríḥ ǀ nāndyám ǀ vahatam ǀ aśvinā ǀ yuvám ǀ tríḥ ǀ pṛ́kṣaḥ ǀ asmé íti ǀ akṣárā-iva ǀ pinvatam ǁ
triḥ ǀ vartiḥ ǀ yātam ǀ triḥ ǀ anu-vrate ǀ jane ǀ triḥ ǀ supra-avye ǀ tredhā-iva ǀ śikṣatam ǀ
triḥ ǀ nāndyam ǀ vahatam ǀ aśvinā ǀ yuvam ǀ triḥ ǀ pṛkṣaḥ ǀ asme iti ǀ akṣarā-iva ǀ pinvatam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.034.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.3.04.04
- Maṇḍala · Anuvāka · Ṛk
- 01.07.052
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.