Ṛk 1.34.10
Saṃhitā
आ ना॑सत्या॒ गच्छ॑तं हू॒यते॑ ह॒विर्मध्वः॑ पिबतं मधु॒पेभि॑रा॒सभिः॑ ।
यु॒वोर्हि पूर्वं॑ सवि॒तोषसो॒ रथ॑मृ॒ताय॑ चि॒त्रं घृ॒तवं॑त॒मिष्य॑ति ॥
आ नासत्या गच्छतं हूयते हविर् मध्वः पिबतम् मधुपेभिर् आसभिः |
युवोर् हि पूर्वं सवितोषसो रथम् ऋताय चित्रं घृतवन्तम् इष्यति ||
ā́ nāsatyā gácchatam hūyáte havírmádhvaḥ pibatam madhupébhirāsábhiḥ ǀ
yuvórhí pū́rvam savitóṣáso ráthamṛtā́ya citrám ghṛtávantamíṣyati ǁ
ā nāsatyā gacchataṃ hūyate havir madhvaḥ pibatam madhupebhir āsabhiḥ |
yuvor hi pūrvaṃ savitoṣaso ratham ṛtāya citraṃ ghṛtavantam iṣyati ||
Padapāṭha
आ । ना॒स॒त्या॒ । गच्छ॑तम् । हू॒यते॑ । ह॒विः । मध्वः॑ । पि॒ब॒त॒म् । म॒धु॒ऽपेभिः॑ । आ॒सऽभिः॑ ।
यु॒वोः । हि । पूर्व॑म् । स॒वि॒ता । उ॒षसः॑ । रथ॑म् । ऋ॒ताय॑ । चि॒त्रम् । घृ॒तऽव॑न्तम् । इष्य॑ति ॥
आ । नासत्या । गच्छतम् । हूयते । हविः । मध्वः । पिबतम् । मधुऽपेभिः । आसऽभिः ।
युवोः । हि । पूर्वम् । सविता । उषसः । रथम् । ऋताय । चित्रम् । घृतऽवन्तम् । इष्यति ॥
ā́ ǀ nāsatyā ǀ gácchatam ǀ hūyáte ǀ havíḥ ǀ mádhvaḥ ǀ pibatam ǀ madhu-pébhiḥ ǀ āsá-bhiḥ ǀ
yuvóḥ ǀ hí ǀ pū́rvam ǀ savitā́ ǀ uṣásaḥ ǀ rátham ǀ ṛtā́ya ǀ citrám ǀ ghṛtá-vantam ǀ íṣyati ǁ
ā ǀ nāsatyā ǀ gacchatam ǀ hūyate ǀ haviḥ ǀ madhvaḥ ǀ pibatam ǀ madhu-pebhiḥ ǀ āsa-bhiḥ ǀ
yuvoḥ ǀ hi ǀ pūrvam ǀ savitā ǀ uṣasaḥ ǀ ratham ǀ ṛtāya ǀ citram ǀ ghṛta-vantam ǀ iṣyati ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.034.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.3.05.04
- Maṇḍala · Anuvāka · Ṛk
- 01.07.058
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.