Ṛk 1.34.6
Saṃhitā
त्रिर्नो॑ अश्विना दि॒व्यानि॑ भेष॒जा त्रिः पार्थि॑वानि॒ त्रिरु॑ दत्तम॒द्भ्यः ।
ओ॒मानं॑ शं॒योर्मम॑काय सू॒नवे॑ त्रि॒धातु॒ शर्म॑ वहतं शुभस्पती ॥
त्रिर् नो अश्विना दिव्यानि भेषजा त्रिः पार्थिवानि त्रिर् उ दत्तम् अद्भ्यः |
ओमानं शंयोर् ममकाय सूनवे त्रिधातु शर्म वहतं शुभस् पती ||
trírno aśvinā divyā́ni bheṣajā́ tríḥ pā́rthivāni tríru dattamadbhyáḥ ǀ
omā́nam śaṃyórmámakāya sūnáve tridhā́tu śárma vahatam śubhaspatī ǁ
trir no aśvinā divyāni bheṣajā triḥ pārthivāni trir u dattam adbhyaḥ |
omānaṃ śaṃyor mamakāya sūnave tridhātu śarma vahataṃ śubhas patī ||
Padapāṭha
त्रिः । नः॒ । अ॒श्वि॒ना॒ । दि॒व्यानि॑ । भे॒ष॒जा । त्रिः । पार्थि॑वानि । त्रिः । ऊं॒ इति॑ । द॒त्त॒म् । अ॒त्ऽभ्यः ।
ओ॒मान॑म् । श॒म्ऽयोः । मम॑काय । सू॒नवे॑ । त्रि॒ऽधातु॑ । शर्म॑ । व॒ह॒त॒म् । शु॒भः॒ । प॒ती॒ इति॑ ॥
त्रिः । नः । अश्विना । दिव्यानि । भेषजा । त्रिः । पार्थिवानि । त्रिः । ऊं इति । दत्तम् । अत्ऽभ्यः ।
ओमानम् । शम्ऽयोः । ममकाय । सूनवे । त्रिऽधातु । शर्म । वहतम् । शुभः । पती इति ॥
tríḥ ǀ naḥ ǀ aśvinā ǀ divyā́ni ǀ bheṣajā́ ǀ tríḥ ǀ pā́rthivāni ǀ tríḥ ǀ ūṃ íti ǀ dattam ǀ at-bhyáḥ ǀ
omā́nam ǀ śam-yóḥ ǀ mámakāya ǀ sūnáve ǀ tri-dhā́tu ǀ śárma ǀ vahatam ǀ śubhaḥ ǀ patī íti ǁ
triḥ ǀ naḥ ǀ aśvinā ǀ divyāni ǀ bheṣajā ǀ triḥ ǀ pārthivāni ǀ triḥ ǀ ūṃ iti ǀ dattam ǀ at-bhyaḥ ǀ
omānam ǀ śam-yoḥ ǀ mamakāya ǀ sūnave ǀ tri-dhātu ǀ śarma ǀ vahatam ǀ śubhaḥ ǀ patī iti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.034.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.3.04.06
- Maṇḍala · Anuvāka · Ṛk
- 01.07.054
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.