Ṛk 1.34.1
Saṃhitā
त्रिश्चि॑न्नो अ॒द्या भ॑वतं नवेदसा वि॒भुर्वां॒ याम॑ उ॒त रा॒तिर॑श्विना ।
यु॒वोर्हि यं॒त्रं हि॒म्येव॒ वास॑सोऽभ्यायं॒सेन्या॑ भवतं मनी॒षिभिः॑ ॥
त्रिश् चिन् नो अद्या भवतं नवेदसा विभुर् वां याम उत रातिर् अश्विना |
युवोर् हि यन्त्रं हिम्येव वाससो ऽभ्यायंसेन्या भवतम् मनीषिभिः ||
tríścinno adyā́ bhavatam navedasā vibhúrvām yā́ma utá rātíraśvinā ǀ
yuvórhí yantrám himyéva vā́saso’bhyāyaṃsényā bhavatam manīṣíbhiḥ ǁ
triś cin no adyā bhavataṃ navedasā vibhur vāṃ yāma uta rātir aśvinā |
yuvor hi yantraṃ himyeva vāsaso 'bhyāyaṃsenyā bhavatam manīṣibhiḥ ||
Padapāṭha
त्रिः । चि॒त् । नः॒ । अ॒द्य । भ॒व॒त॒म् । न॒वे॒द॒सा॒ । वि॒ऽभुः । वा॒म् । यामः॑ । उ॒त । रा॒तिः । अ॒श्वि॒ना॒ ।
यु॒वोः । हि । य॒न्त्रम् । हि॒म्याऽइ॑व । वास॑सः । अ॒भि॒ऽआ॒यं॒सेन्या॑ । भ॒व॒त॒म् । म॒नी॒षिऽभिः॑ ॥
त्रिः । चित् । नः । अद्य । भवतम् । नवेदसा । विऽभुः । वाम् । यामः । उत । रातिः । अश्विना ।
युवोः । हि । यन्त्रम् । हिम्याऽइव । वाससः । अभिऽआयंसेन्या । भवतम् । मनीषिऽभिः ॥
tríḥ ǀ cit ǀ naḥ ǀ adyá ǀ bhavatam ǀ navedasā ǀ vi-bhúḥ ǀ vām ǀ yā́maḥ ǀ utá ǀ rātíḥ ǀ aśvinā ǀ
yuvóḥ ǀ hí ǀ yantrám ǀ himyā́-iva ǀ vā́sasaḥ ǀ abhi-āyaṃsényā ǀ bhavatam ǀ manīṣí-bhiḥ ǁ
triḥ ǀ cit ǀ naḥ ǀ adya ǀ bhavatam ǀ navedasā ǀ vi-bhuḥ ǀ vām ǀ yāmaḥ ǀ uta ǀ rātiḥ ǀ aśvinā ǀ
yuvoḥ ǀ hi ǀ yantram ǀ himyā-iva ǀ vāsasaḥ ǀ abhi-āyaṃsenyā ǀ bhavatam ǀ manīṣi-bhiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.034.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.3.04.01
- Maṇḍala · Anuvāka · Ṛk
- 01.07.049
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.