Ṛgveda · Maṇḍala 1 · Sūkta 157
Ṛk 1.157.1
Saṃhitā
अबो॑ध्य॒ग्निर्ज्म उदे॑ति॒ सूर्यो॒ व्यु१॒॑षाश्चं॒द्रा म॒ह्या॑वो अ॒र्चिषा॑ ।
आयु॑क्षाताम॒श्विना॒ यात॑वे॒ रथं॒ प्रासा॑वीद्दे॒वः स॑वि॒ता जग॒त्पृथ॑क् ॥
अबोध्य् अग्निर् ज्म उद् एति सूर्यो व्य् उषाश् चन्द्रा मह्य् आवो अर्चिषा |
आयुक्षाताम् अश्विना यातवे रथम् प्रासावीद् देवः सविता जगत् पृथक् ||
ábodhyagnírjmá údeti sū́ryo vyúṣā́ścandrā́ mahyā́vo arcíṣā ǀ
ā́yukṣātāmaśvínā yā́tave rátham prā́sāvīddeváḥ savitā́ jágatpṛ́thak ǁ
abodhy agnir jma ud eti sūryo vy uṣāś candrā mahy āvo arciṣā |
āyukṣātām aśvinā yātave ratham prāsāvīd devaḥ savitā jagat pṛthak ||
Padapāṭha
अबो॑धि । अ॒ग्निः । ज्मः । उत् । ए॒ति॒ । सूर्यः॑ । वि । उ॒षाः । च॒न्द्रा । म॒ही । आ॒वः॒ । अ॒र्चिषा॑ ।
अयु॑क्षाताम् । अ॒श्विना॑ । यात॑वे । रथ॑म् । प्र । अ॒सा॒वी॒त् । दे॒वः । स॒वि॒ता । जग॑त् । पृथ॑क् ॥
अबोधि । अग्निः । ज्मः । उत् । एति । सूर्यः । वि । उषाः । चन्द्रा । मही । आवः । अर्चिषा ।
अयुक्षाताम् । अश्विना । यातवे । रथम् । प्र । असावीत् । देवः । सविता । जगत् । पृथक् ॥
ábodhi ǀ agníḥ ǀ jmáḥ ǀ út ǀ eti ǀ sū́ryaḥ ǀ ví ǀ uṣā́ḥ ǀ candrā́ ǀ mahī́ ǀ āvaḥ ǀ arcíṣā ǀ
áyukṣātām ǀ aśvínā ǀ yā́tave ǀ rátham ǀ prá ǀ asāvīt ǀ deváḥ ǀ savitā́ ǀ jágat ǀ pṛ́thak ǁ
abodhi ǀ agniḥ ǀ jmaḥ ǀ ut ǀ eti ǀ sūryaḥ ǀ vi ǀ uṣāḥ ǀ candrā ǀ mahī ǀ āvaḥ ǀ arciṣā ǀ
ayukṣātām ǀ aśvinā ǀ yātave ǀ ratham ǀ pra ǀ asāvīt ǀ devaḥ ǀ savitā ǀ jagat ǀ pṛthak ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.157.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.2.27.01
- Maṇḍala · Anuvāka · Ṛk
- 1.22.001
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.