Ṛk 1.63.1
Saṃhitā
त्वं म॒हाँ इं॑द्र॒ यो ह॒ शुष्मै॒र्द्यावा॑ जज्ञा॒नः पृ॑थि॒वी अमे॑ धाः ।
यद्ध॑ ते॒ विश्वा॑ गि॒रय॑श्चि॒दभ्वा॑ भि॒या दृ॒ळ्हासः॑ कि॒रणा॒ नैज॑न् ॥
त्वम् महां इन्द्र यो ह शुष्मैर् द्यावा जज्ञानः पृथिवी अमे धाः |
यद् ध ते विश्वा गिरयश् चिद् अभ्वा भिया दृऌहासः किरणा नैजन् ||
tvám mahā́m̐ indra yó ha śúṣmairdyā́vā jajñānáḥ pṛthivī́ áme dhāḥ ǀ
yáddha te víśvā giráyaścidábhvā bhiyā́ dṛḷhā́saḥ kiráṇā náijan ǁ
tvam mahāṃ indra yo ha śuṣmair dyāvā jajñānaḥ pṛthivī ame dhāḥ |
yad dha te viśvā girayaś cid abhvā bhiyā dṛḷhāsaḥ kiraṇā naijan ||
Padapāṭha
त्वम् । म॒हान् । इ॒न्द्र॒ । यः । ह॒ । शुष्मैः॑ । द्यावा॑ । ज॒ज्ञा॒नः । पृ॒थि॒वी इति॑ । अमे॑ । धाः॒ ।
यत् । ह॒ । ते॒ । विश्वा॑ । गि॒रयः॑ । चि॒त् । अभ्वा॑ । भि॒या । दृ॒ळ्हासः॑ । कि॒रणाः॑ । न । ऐज॑न् ॥
त्वम् । महान् । इन्द्र । यः । ह । शुष्मैः । द्यावा । जज्ञानः । पृथिवी इति । अमे । धाः ।
यत् । ह । ते । विश्वा । गिरयः । चित् । अभ्वा । भिया । दृळ्हासः । किरणाः । न । ऐजन् ॥
tvám ǀ mahā́n ǀ indra ǀ yáḥ ǀ ha ǀ śúṣmaiḥ ǀ dyā́vā ǀ jajñānáḥ ǀ pṛthivī́ íti ǀ áme ǀ dhāḥ ǀ
yát ǀ ha ǀ te ǀ víśvā ǀ giráyaḥ ǀ cit ǀ ábhvā ǀ bhiyā́ ǀ dṛḷhā́saḥ ǀ kiráṇāḥ ǀ ná ǀ áijan ǁ
tvam ǀ mahān ǀ indra ǀ yaḥ ǀ ha ǀ śuṣmaiḥ ǀ dyāvā ǀ jajñānaḥ ǀ pṛthivī iti ǀ ame ǀ dhāḥ ǀ
yat ǀ ha ǀ te ǀ viśvā ǀ girayaḥ ǀ cit ǀ abhvā ǀ bhiyā ǀ dṛḷhāsaḥ ǀ kiraṇāḥ ǀ na ǀ aijan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.063.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.5.04.00
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.