Ṛk 1.63.4
Saṃhitā
त्वं ह॒ त्यदिं॑द्र चोदीः॒ सखा॑ वृ॒त्रं यद्व॑ज्रिन्वृषकर्मन्नु॒भ्नाः ।
यद्ध॑ शूर वृषमणः परा॒चैर्वि दस्यूँ॒र्योना॒वकृ॑तो वृथा॒षाट् ॥
त्वं ह त्यद् इन्द्र चोदीः सखा वृत्रं यद् वज्रिन् वृषकर्मन्न् उभ्नाः |
यद् ध शूर वृषमणः पराचैर् वि दस्यूंर् योनाव् अकृतो वृथाषाट् ||
tvám ha tyádindra codīḥ sákhā vṛtrám yádvajrinvṛṣakarmannubhnā́ḥ ǀ
yáddha śūra vṛṣamaṇaḥ parācáirví dásyūm̐ryónāvákṛto vṛthāṣā́ṭ ǁ
tvaṃ ha tyad indra codīḥ sakhā vṛtraṃ yad vajrin vṛṣakarmann ubhnāḥ |
yad dha śūra vṛṣamaṇaḥ parācair vi dasyūṃr yonāv akṛto vṛthāṣāṭ ||
Padapāṭha
त्वम् । ह॒ । त्यत् । इ॒न्द्र॒ । चो॒दीः॒ । सखा॑ । वृ॒त्रम् । यत् । व॒ज्रि॒न् । वृ॒ष॒ऽक॒र्म॒न् । उ॒भ्नाः ।
यत् । ह॒ । शू॒र॒ । वृ॒ष॒ऽम॒नः॒ । प॒रा॒चैः । वि । दस्यू॑न् । योनौ॑ । अकृ॑तः । वृ॒था॒षाट् ॥
त्वम् । ह । त्यत् । इन्द्र । चोदीः । सखा । वृत्रम् । यत् । वज्रिन् । वृषऽकर्मन् । उभ्नाः ।
यत् । ह । शूर । वृषऽमनः । पराचैः । वि । दस्यून् । योनौ । अकृतः । वृथाषाट् ॥
tvám ǀ ha ǀ tyát ǀ indra ǀ codīḥ ǀ sákhā ǀ vṛtrám ǀ yát ǀ vajrin ǀ vṛṣa-karman ǀ ubhnā́ḥ ǀ
yát ǀ ha ǀ śūra ǀ vṛṣa-manaḥ ǀ parācáiḥ ǀ ví ǀ dásyūn ǀ yónau ǀ ákṛtaḥ ǀ vṛthāṣā́ṭ ǁ
tvam ǀ ha ǀ tyat ǀ indra ǀ codīḥ ǀ sakhā ǀ vṛtram ǀ yat ǀ vajrin ǀ vṛṣa-karman ǀ ubhnāḥ ǀ
yat ǀ ha ǀ śūra ǀ vṛṣa-manaḥ ǀ parācaiḥ ǀ vi ǀ dasyūn ǀ yonau ǀ akṛtaḥ ǀ vṛthāṣāṭ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.063.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.5.04.00
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.