Ṛk 1.63.2
Saṃhitā
आ यद्धरी॑ इंद्र॒ विव्र॑ता॒ वेरा ते॒ वज्रं॑ जरि॒ता बा॒ह्वोर्धा॑त् ।
येना॑विहर्यतक्रतो अ॒मित्रा॒न्पुर॑ इ॒ष्णासि॑ पुरुहूत पू॒र्वीः ॥
आ यद् धरी इन्द्र विव्रता वेर् आ ते वज्रं जरिता बाह्वोर् धात् |
येनाविहर्यतक्रतो अमित्रान् पुर इष्णासि पुरुहूत पूर्वीः ||
ā́ yáddhárī indra vívratā vérā́ te vájram jaritā́ bāhvórdhāt ǀ
yénāviharyatakrato amítrānpúra iṣṇā́si puruhūta pūrvī́ḥ ǁ
ā yad dharī indra vivratā ver ā te vajraṃ jaritā bāhvor dhāt |
yenāviharyatakrato amitrān pura iṣṇāsi puruhūta pūrvīḥ ||
Padapāṭha
आ । यत् । हरी॒ इति॑ । इ॒न्द्र॒ । विऽव्र॑ता । वेः । आ । ते॒ । वज्र॑म् । ज॒रि॒ता । बा॒ह्वोः । धा॒त् ।
येन॑ । अ॒वि॒ह॒र्य॒त॒क्र॒तो॒ इत्य॑विहर्यतऽक्रतो । अ॒मित्रा॑न् । पुरः॑ । इ॒ष्णासि॑ । पु॒रु॒ऽहू॒त॒ । पू॒र्वीः ॥
आ । यत् । हरी इति । इन्द्र । विऽव्रता । वेः । आ । ते । वज्रम् । जरिता । बाह्वोः । धात् ।
येन । अविहर्यतक्रतो इत्यविहर्यतऽक्रतो । अमित्रान् । पुरः । इष्णासि । पुरुऽहूत । पूर्वीः ॥
ā́ ǀ yát ǀ hárī íti ǀ indra ǀ ví-vratā ǀ véḥ ǀ ā́ ǀ te ǀ vájram ǀ jaritā́ ǀ bāhvóḥ ǀ dhāt ǀ
yéna ǀ aviharyatakrato ítyaviharyata-krato ǀ amítrān ǀ púraḥ ǀ iṣṇā́si ǀ puru-hūta ǀ pūrvī́ḥ ǁ
ā ǀ yat ǀ harī iti ǀ indra ǀ vi-vratā ǀ veḥ ǀ ā ǀ te ǀ vajram ǀ jaritā ǀ bāhvoḥ ǀ dhāt ǀ
yena ǀ aviharyatakrato ityaviharyata-krato ǀ amitrān ǀ puraḥ ǀ iṣṇāsi ǀ puru-hūta ǀ pūrvīḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.063.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.5.04.00
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.