Ṛgveda · Maṇḍala 1 · Sūkta 111
Ṛk 1.111.3
Saṃhitā
आ त॑क्षत सा॒तिम॒स्मभ्य॑मृभवः सा॒तिं रथा॑य सा॒तिमर्व॑ते नरः ।
सा॒तिं नो॒ जैत्रीं॒ सं म॑हेत वि॒श्वहा॑ जा॒मिमजा॑मिं॒ पृत॑नासु स॒क्षणिं॑ ॥
आ तक्षत सातिम् अस्मभ्यम् ऋभवः सातिं रथाय सातिम् अर्वते नरः |
सातिं नो जैत्रीं सम् महेत विश्वहा जामिम् अजामिम् पृतनासु सक्षणिम् ||
ā́ takṣata sātímasmábhyamṛbhavaḥ sātím ráthāya sātímárvate naraḥ ǀ
sātím no jáitrīm sám maheta viśváhā jāmímájāmim pṛ́tanāsu sakṣáṇim ǁ
ā takṣata sātim asmabhyam ṛbhavaḥ sātiṃ rathāya sātim arvate naraḥ |
sātiṃ no jaitrīṃ sam maheta viśvahā jāmim ajāmim pṛtanāsu sakṣaṇim ||
Padapāṭha
आ । त॒क्ष॒त॒ । सा॒तिम् । अ॒स्मभ्य॑म् । ऋ॒भ॒वः॒ । सा॒तिम् । रथा॑य । सा॒तिम् । अर्व॑ते । न॒रः॒ ।
सा॒तिम् । नः॒ । जैत्री॑म् । सम् । म॒हे॒त॒ । वि॒श्वहा॑ । जा॒मिम् । अजा॑मिम् । पृत॑नासु । स॒क्षणि॑म् ॥
आ । तक्षत । सातिम् । अस्मभ्यम् । ऋभवः । सातिम् । रथाय । सातिम् । अर्वते । नरः ।
सातिम् । नः । जैत्रीम् । सम् । महेत । विश्वहा । जामिम् । अजामिम् । पृतनासु । सक्षणिम् ॥
ā́ ǀ takṣata ǀ sātím ǀ asmábhyam ǀ ṛbhavaḥ ǀ sātím ǀ ráthāya ǀ sātím ǀ árvate ǀ naraḥ ǀ
sātím ǀ naḥ ǀ jáitrīm ǀ sám ǀ maheta ǀ viśváhā ǀ jāmím ǀ ájāmim ǀ pṛ́tanāsu ǀ sakṣáṇim ǁ
ā ǀ takṣata ǀ sātim ǀ asmabhyam ǀ ṛbhavaḥ ǀ sātim ǀ rathāya ǀ sātim ǀ arvate ǀ naraḥ ǀ
sātim ǀ naḥ ǀ jaitrīm ǀ sam ǀ maheta ǀ viśvahā ǀ jāmim ǀ ajāmim ǀ pṛtanāsu ǀ sakṣaṇim ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.111.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.32.03
- Maṇḍala · Anuvāka · Ṛk
- 1.16.043
- Devatā देवता
- Ṛbhus
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.