Ṛgveda · Maṇḍala 1 · Sūkta 111
Ṛk 1.111.4
Saṃhitā
ऋ॒भु॒क्षण॒मिंद्र॒मा हु॑व ऊ॒तय॑ ऋ॒भून्वाजा॑न्म॒रुतः॒ सोम॑पीतये ।
उ॒भा मि॒त्रावरु॑णा नू॒नम॒श्विना॒ ते नो॑ हिन्वंतु सा॒तये॑ धि॒ये जि॒षे ॥
ऋभुक्षणम् इन्द्रम् आ हुव ऊतय ऋभून् वाजान् मरुतः सोमपीतये |
उभा मित्रावरुणा नूनम् अश्विना ते नो हिन्वन्तु सातये धिये जिषे ||
ṛbhukṣáṇamíndramā́ huva ūtáya ṛbhū́nvā́jānmarútaḥ sómapītaye ǀ
ubhā́ mitrā́váruṇā nūnámaśvínā té no hinvantu sātáye dhiyé jiṣé ǁ
ṛbhukṣaṇam indram ā huva ūtaya ṛbhūn vājān marutaḥ somapītaye |
ubhā mitrāvaruṇā nūnam aśvinā te no hinvantu sātaye dhiye jiṣe ||
Padapāṭha
ऋ॒भु॒क्षण॑म् । इन्द्र॑म् । आ । हु॒वे॒ । ऊ॒तये॑ । ऋ॒भून् । वाजा॑न् । म॒रुतः॑ । सोम॑ऽपीतये ।
उ॒भा । मि॒त्रावरु॑णा । नू॒नम् । अ॒श्विना॑ । ते । नः॒ । हि॒न्व॒न्तु॒ । सा॒तये॑ । धि॒ये । जि॒षे ॥
ऋभुक्षणम् । इन्द्रम् । आ । हुवे । ऊतये । ऋभून् । वाजान् । मरुतः । सोमऽपीतये ।
उभा । मित्रावरुणा । नूनम् । अश्विना । ते । नः । हिन्वन्तु । सातये । धिये । जिषे ॥
ṛbhukṣáṇam ǀ índram ǀ ā́ ǀ huve ǀ ūtáye ǀ ṛbhū́n ǀ vā́jān ǀ marútaḥ ǀ sóma-pītaye ǀ
ubhā́ ǀ mitrā́váruṇā ǀ nūnám ǀ aśvínā ǀ té ǀ naḥ ǀ hinvantu ǀ sātáye ǀ dhiyé ǀ jiṣé ǁ
ṛbhukṣaṇam ǀ indram ǀ ā ǀ huve ǀ ūtaye ǀ ṛbhūn ǀ vājān ǀ marutaḥ ǀ soma-pītaye ǀ
ubhā ǀ mitrāvaruṇā ǀ nūnam ǀ aśvinā ǀ te ǀ naḥ ǀ hinvantu ǀ sātaye ǀ dhiye ǀ jiṣe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.111.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.32.04
- Maṇḍala · Anuvāka · Ṛk
- 1.16.044
- Devatā देवता
- Ṛbhus
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.