Ṛk 1.38.2
Saṃhitā
क्व॑ नू॒नं कद्वो॒ अर्थं॒ गंता॑ दि॒वो न पृ॑थि॒व्याः ।
क्व॑ वो॒ गावो॒ न र॑ण्यंति ॥
क्व नूनं कद् वो अर्थं गन्ता दिवो न पृथिव्याः |
क्व वो गावो न रण्यन्ति ||
kvá nūnám kádvo ártham gántā divó ná pṛthivyā́ḥ ǀ
kvá vo gā́vo ná raṇyanti ǁ
kva nūnaṃ kad vo arthaṃ gantā divo na pṛthivyāḥ |
kva vo gāvo na raṇyanti ||
Padapāṭha
क्व॑ । नू॒नम् । कत् । वः॒ । अर्थ॑म् । गन्ता॑ । दि॒वः । न । पृ॒थि॒व्याः ।
क्व॑ । वः॒ । गावः॑ । न । र॒ण्य॒न्ति॒ ॥
क्व । नूनम् । कत् । वः । अर्थम् । गन्ता । दिवः । न । पृथिव्याः ।
क्व । वः । गावः । न । रण्यन्ति ॥
kvá ǀ nūnám ǀ kát ǀ vaḥ ǀ ártham ǀ gántā ǀ diváḥ ǀ ná ǀ pṛthivyā́ḥ ǀ
kvá ǀ vaḥ ǀ gā́vaḥ ǀ ná ǀ raṇyanti ǁ
kva ǀ nūnam ǀ kat ǀ vaḥ ǀ artham ǀ gantā ǀ divaḥ ǀ na ǀ pṛthivyāḥ ǀ
kva ǀ vaḥ ǀ gāvaḥ ǀ na ǀ raṇyanti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.038.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.3.15.02
- Maṇḍala · Anuvāka · Ṛk
- 01.08.037
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Kaṇva Ghaura
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.