Ṛk 1.38.14
Saṃhitā
मि॒मी॒हि श्लोक॑मा॒स्ये॑ प॒र्जन्य॑ इव ततनः ।
गाय॑ गाय॒त्रमु॒क्थ्यं॑ ॥
मिमीहि श्लोकम् आस्ये पर्जन्य इव ततनः |
गाय गायत्रम् उक्थ्यम् ||
mimīhí ślókamāsyé parjánya iva tatanaḥ ǀ
gā́ya gāyatrámukthyám ǁ
mimīhi ślokam āsye parjanya iva tatanaḥ |
gāya gāyatram ukthyam ||
Padapāṭha
मि॒मी॒हि । श्लोक॑म् । आ॒स्ये॑ । प॒र्जन्यः॑ऽइव । त॒त॒नः॒ ।
गाय॑ । गा॒य॒त्रम् । उ॒क्थ्य॑म् ॥
मिमीहि । श्लोकम् । आस्ये । पर्जन्यःऽइव । ततनः ।
गाय । गायत्रम् । उक्थ्यम् ॥
mimīhí ǀ ślókam ǀ āsyé ǀ parjányaḥ-iva ǀ tatanaḥ ǀ
gā́ya ǀ gāyatrám ǀ ukthyám ǁ
mimīhi ǀ ślokam ǀ āsye ǀ parjanyaḥ-iva ǀ tatanaḥ ǀ
gāya ǀ gāyatram ǀ ukthyam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.038.14
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.3.17.04
- Maṇḍala · Anuvāka · Ṛk
- 01.08.049
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Kaṇva Ghaura
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.