Ṛk 1.38.9
Saṃhitā
दिवा॑ चि॒त्तमः॑ कृण्वंति प॒र्जन्ये॑नोदवा॒हेन॑ ।
यत्पृ॑थि॒वीं व्युं॒दंति॑ ॥
दिवा चित् तमः कृण्वन्ति पर्जन्येनोदवाहेन |
यत् पृथिवीं व्युन्दन्ति ||
dívā cittámaḥ kṛṇvanti parjányenodavāhéna ǀ
yátpṛthivī́m vyundánti ǁ
divā cit tamaḥ kṛṇvanti parjanyenodavāhena |
yat pṛthivīṃ vyundanti ||
Padapāṭha
दिवा॑ । चि॒त् । तमः॑ । कृ॒ण्व॒न्ति॒ । प॒र्जन्ये॑न । उ॒द॒ऽवा॒हेन॑ ।
यत् । पृ॒थि॒वीम् । वि॒ऽउ॒न्दन्ति॑ ॥
दिवा । चित् । तमः । कृण्वन्ति । पर्जन्येन । उदऽवाहेन ।
यत् । पृथिवीम् । विऽउन्दन्ति ॥
dívā ǀ cit ǀ támaḥ ǀ kṛṇvanti ǀ parjányena ǀ uda-vāhéna ǀ
yát ǀ pṛthivī́m ǀ vi-undánti ǁ
divā ǀ cit ǀ tamaḥ ǀ kṛṇvanti ǀ parjanyena ǀ uda-vāhena ǀ
yat ǀ pṛthivīm ǀ vi-undanti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.038.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.3.16.04
- Maṇḍala · Anuvāka · Ṛk
- 01.08.044
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Kaṇva Ghaura
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.