Ṛk 1.29.4
Saṃhitā
स॒संतु॒ त्या अरा॑तयो॒ बोधं॑तु शूर रा॒तयः॑ ।
आ तू न॑ इंद्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
ससन्तु त्या अरातयो बोधन्तु शूर रातयः |
आ तू न इन्द्र शंसय गोष्व् अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ||
sasántu tyā́ árātayo bódhantu śūra rātáyaḥ ǀ
ā́ tū́ na indra śaṃsaya góṣváśveṣu śubhríṣu sahásreṣu tuvīmagha ǁ
sasantu tyā arātayo bodhantu śūra rātayaḥ |
ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ||
Padapāṭha
स॒सन्तु॑ । त्याः । अरा॑तयः । बोध॑न्तु । शू॒र॒ । रा॒तयः॑ ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥
ससन्तु । त्याः । अरातयः । बोधन्तु । शूर । रातयः ।
आ । तु । नः । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥
sasántu ǀ tyā́ḥ ǀ árātayaḥ ǀ bódhantu ǀ śūra ǀ rātáyaḥ ǀ
ā́ ǀ tú ǀ naḥ ǀ indra ǀ śaṃsaya ǀ góṣu ǀ áśveṣu ǀ śubhríṣu ǀ sahásreṣu ǀ tuvi-magha ǁ
sasantu ǀ tyāḥ ǀ arātayaḥ ǀ bodhantu ǀ śūra ǀ rātayaḥ ǀ
ā ǀ tu ǀ naḥ ǀ indra ǀ śaṃsaya ǀ goṣu ǀ aśveṣu ǀ śubhriṣu ǀ sahasreṣu ǀ tuvi-magha ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.029.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.27.04
- Maṇḍala · Anuvāka · Ṛk
- 01.06.072
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Śunaḥśepa Ājīgarti
- Chandas छन्दस्
- Paṅkti
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.