Ṛk 1.91.18
Saṃhitā
सं ते॒ पयां॑सि॒ समु॑ यंतु॒ वाजाः॒ सं वृष्ण्या॑न्यभिमाति॒षाहः॑ ।
आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवां॑स्युत्त॒मानि॑ धिष्व ॥
सं ते पयांसि सम् उ यन्तु वाजाः सं वृष्ण्यान्य् अभिमातिषाहः |
आप्यायमानो अमृताय सोम दिवि श्रवांस्य् उत्तमानि धिष्व ||
sám te páyāṃsi sámu yantu vā́jāḥ sám vṛ́ṣṇyānyabhimātiṣā́haḥ ǀ
āpyā́yamāno amṛ́tāya soma diví śrávāṃsyuttamā́ni dhiṣva ǁ
saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ |
āpyāyamāno amṛtāya soma divi śravāṃsy uttamāni dhiṣva ||
Padapāṭha
सम् । ते॒ । पयां॑सि । सम् । ऊं॒ इति॑ । य॒न्तु॒ । वाजाः॑ । सम् । वृष्ण्या॑नि । अ॒भि॒मा॒ति॒ऽसहः॑ ।
आ॒ऽप्याय॑मानः । अ॒मृता॑य । सो॒म॒ । दि॒वि । श्रवां॑सि । उ॒त्ऽत॒मानि॑ । धि॒ष्व॒ ॥
सम् । ते । पयांसि । सम् । ऊं इति । यन्तु । वाजाः । सम् । वृष्ण्यानि । अभिमातिऽसहः ।
आऽप्यायमानः । अमृताय । सोम । दिवि । श्रवांसि । उत्ऽतमानि । धिष्व ॥
sám ǀ te ǀ páyāṃsi ǀ sám ǀ ūṃ íti ǀ yantu ǀ vā́jāḥ ǀ sám ǀ vṛ́ṣṇyāni ǀ abhimāti-sáhaḥ ǀ
ā-pyā́yamānaḥ ǀ amṛ́tāya ǀ soma ǀ diví ǀ śrávāṃsi ǀ ut-tamā́ni ǀ dhiṣva ǁ
sam ǀ te ǀ payāṃsi ǀ sam ǀ ūṃ iti ǀ yantu ǀ vājāḥ ǀ sam ǀ vṛṣṇyāni ǀ abhimāti-sahaḥ ǀ
ā-pyāyamānaḥ ǀ amṛtāya ǀ soma ǀ divi ǀ śravāṃsi ǀ ut-tamāni ǀ dhiṣva ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.091.18
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.6.22.03
- Maṇḍala · Anuvāka · Ṛk
- 1.14.071
- Devatā देवता
- Soma
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Gāyatrī, Triṣṭubh, Uṣṇih
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.