Ṛk 1.91.1
Saṃhitā
त्वं सो॑म॒ प्र चि॑कितो मनी॒षा त्वं रजि॑ष्ठ॒मनु॑ नेषि॒ पंथां॑ ।
तव॒ प्रणी॑ती पि॒तरो॑ न इंदो दे॒वेषु॒ रत्न॑मभजंत॒ धीराः॑ ॥
त्वं सोम प्र चिकितो मनीषा त्वं रजिष्ठम् अनु नेषि पन्थाम् |
तव प्रणीती पितरो न इन्दो देवेषु रत्नम् अभजन्त धीराः ||
tvám soma prá cikito manīṣā́ tvám rájiṣṭhamánu neṣi pánthām ǀ
táva práṇītī pitáro na indo devéṣu rátnamabhajanta dhī́rāḥ ǁ
tvaṃ soma pra cikito manīṣā tvaṃ rajiṣṭham anu neṣi panthām |
tava praṇītī pitaro na indo deveṣu ratnam abhajanta dhīrāḥ ||
Padapāṭha
त्वम् । सो॒म॒ । प्र । चि॒कि॒तः॒ । म॒नी॒षा । त्वम् । रजि॑ष्ठम् । अनु॑ । ने॒षि॒ । पन्था॑म् ।
तव॑ । प्रऽनी॑ती । पि॒तरः॑ । नः॒ । इ॒न्दो॒ इति॑ । दे॒वेषु॑ । रत्न॑म् । अ॒भ॒ज॒न्त॒ । धीराः॑ ॥
त्वम् । सोम । प्र । चिकितः । मनीषा । त्वम् । रजिष्ठम् । अनु । नेषि । पन्थाम् ।
तव । प्रऽनीती । पितरः । नः । इन्दो इति । देवेषु । रत्नम् । अभजन्त । धीराः ॥
tvám ǀ soma ǀ prá ǀ cikitaḥ ǀ manīṣā́ ǀ tvám ǀ rájiṣṭham ǀ ánu ǀ neṣi ǀ pánthām ǀ
táva ǀ prá-nītī ǀ pitáraḥ ǀ naḥ ǀ indo íti ǀ devéṣu ǀ rátnam ǀ abhajanta ǀ dhī́rāḥ ǁ
tvam ǀ soma ǀ pra ǀ cikitaḥ ǀ manīṣā ǀ tvam ǀ rajiṣṭham ǀ anu ǀ neṣi ǀ panthām ǀ
tava ǀ pra-nītī ǀ pitaraḥ ǀ naḥ ǀ indo iti ǀ deveṣu ǀ ratnam ǀ abhajanta ǀ dhīrāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.091.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.6.19.01
- Maṇḍala · Anuvāka · Ṛk
- 1.14.054
- Devatā देवता
- Soma
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Gāyatrī, Triṣṭubh, Uṣṇih
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.