Ṛk 1.91.4
Saṃhitā
या ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्यां या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु ।
तेभि॑र्नो॒ विश्वैः॑ सु॒मना॒ अहे॑ळ॒न्राज॑न्त्सोम॒ प्रति॑ ह॒व्या गृ॑भाय ॥
या ते धामानि दिवि या पृथिव्यां या पर्वतेष्व् ओषधीष्व् अप्सु |
तेभिर् नो विश्वैः सुमना अहेऌअन् राजन् सोम प्रति हव्या गृभाय ||
yā́ te dhā́māni diví yā́ pṛthivyā́m yā́ párvateṣvóṣadhīṣvapsú ǀ
tébhirno víśvaiḥ sumánā áheḷanrā́jantsoma práti havyā́ gṛbhāya ǁ
yā te dhāmāni divi yā pṛthivyāṃ yā parvateṣv oṣadhīṣv apsu |
tebhir no viśvaiḥ sumanā aheḷan rājan soma prati havyā gṛbhāya ||
Padapāṭha
या । ते॒ । धामा॑नि । दि॒वि । या । पृ॒थि॒व्याम् । या । पर्व॑तेषु । ओष॑धीषु । अ॒प्ऽसु ।
तेभिः॑ । नः॒ । विश्वैः॑ । सु॒ऽमनाः॑ । अहे॑ळन् । राज॑न् । सो॒म॒ । प्रति॑ । ह॒व्या । गृ॒भा॒य॒ ॥
या । ते । धामानि । दिवि । या । पृथिव्याम् । या । पर्वतेषु । ओषधीषु । अप्ऽसु ।
तेभिः । नः । विश्वैः । सुऽमनाः । अहेळन् । राजन् । सोम । प्रति । हव्या । गृभाय ॥
yā́ ǀ te ǀ dhā́māni ǀ diví ǀ yā́ ǀ pṛthivyā́m ǀ yā́ ǀ párvateṣu ǀ óṣadhīṣu ǀ ap-sú ǀ
tébhiḥ ǀ naḥ ǀ víśvaiḥ ǀ su-mánāḥ ǀ áheḷan ǀ rā́jan ǀ soma ǀ práti ǀ havyā́ ǀ gṛbhāya ǁ
yā ǀ te ǀ dhāmāni ǀ divi ǀ yā ǀ pṛthivyām ǀ yā ǀ parvateṣu ǀ oṣadhīṣu ǀ ap-su ǀ
tebhiḥ ǀ naḥ ǀ viśvaiḥ ǀ su-manāḥ ǀ aheḷan ǀ rājan ǀ soma ǀ prati ǀ havyā ǀ gṛbhāya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.091.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.6.19.04
- Maṇḍala · Anuvāka · Ṛk
- 1.14.057
- Devatā देवता
- Soma
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Gāyatrī, Triṣṭubh, Uṣṇih
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.