Ṛk 1.91.5
Saṃhitā
त्वं सो॑मासि॒ सत्प॑ति॒स्त्वं राजो॒त वृ॑त्र॒हा ।
त्वं भ॒द्रो अ॑सि॒ क्रतुः॑ ॥
त्वं सोमासि सत्पतिस् त्वं राजोत वृत्रहा |
त्वम् भद्रो असि क्रतुः ||
tvám somāsi sátpatistvám rā́jotá vṛtrahā́ ǀ
tvám bhadró asi krátuḥ ǁ
tvaṃ somāsi satpatis tvaṃ rājota vṛtrahā |
tvam bhadro asi kratuḥ ||
Padapāṭha
त्वम् । सो॒म॒ । अ॒सि॒ । सत्ऽप॑तिः । त्वम् । राजा॑ । उ॒त । वृ॒त्र॒ऽहा ।
त्वम् । भ॒द्रः । अ॒सि॒ । क्रतुः॑ ॥
त्वम् । सोम । असि । सत्ऽपतिः । त्वम् । राजा । उत । वृत्रऽहा ।
त्वम् । भद्रः । असि । क्रतुः ॥
tvám ǀ soma ǀ asi ǀ sát-patiḥ ǀ tvám ǀ rā́jā ǀ utá ǀ vṛtra-hā́ ǀ
tvám ǀ bhadráḥ ǀ asi ǀ krátuḥ ǁ
tvam ǀ soma ǀ asi ǀ sat-patiḥ ǀ tvam ǀ rājā ǀ uta ǀ vṛtra-hā ǀ
tvam ǀ bhadraḥ ǀ asi ǀ kratuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.091.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.6.19.05
- Maṇḍala · Anuvāka · Ṛk
- 1.14.058
- Devatā देवता
- Soma
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Gāyatrī, Triṣṭubh, Uṣṇih
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.