Ṛgveda · Maṇḍala 1 · Sūkta 165
Ṛk 1.165.14
Saṃhitā
आ यद्दु॑व॒स्याद्दु॒वसे॒ न का॒रुर॒स्मांच॒क्रे मा॒न्यस्य॑ मे॒धा ।
ओ षु व॑र्त्त मरुतो॒ विप्र॒मच्छे॒मा ब्रह्मा॑णि जरि॒ता वो॑ अर्चत् ॥
आ यद् दुवस्याद् दुवसे न कारुर् अस्माञ् चक्रे मान्यस्य मेधा |
ओ षु वर्त्त मरुतो विप्रम् अच्छेमा ब्रह्माणि जरिता वो अर्चत् ||
ā́ yádduvasyā́dduváse ná kārúrasmā́ñcakré mānyásya medhā́ ǀ
ó ṣú vartta maruto vípramácchemā́ bráhmāṇi jaritā́ vo arcat ǁ
ā yad duvasyād duvase na kārur asmāñ cakre mānyasya medhā |
o ṣu vartta maruto vipram acchemā brahmāṇi jaritā vo arcat ||
Padapāṭha
आ । यत् । दु॒व॒स्यात् । दु॒वसे॑ । न । का॒रुः । अ॒स्मान् । च॒क्रे । मा॒न्यस्य॑ । मे॒धा ।
ओ इति॑ । सु । व॒र्त्त॒ । म॒रु॒तः॒ । विप्र॑म् । अच्छ॑ । इ॒मा । ब्रह्मा॑णि । ज॒रि॒ता । वः॒ । अ॒र्च॒त् ॥
आ । यत् । दुवस्यात् । दुवसे । न । कारुः । अस्मान् । चक्रे । मान्यस्य । मेधा ।
ओ इति । सु । वर्त्त । मरुतः । विप्रम् । अच्छ । इमा । ब्रह्माणि । जरिता । वः । अर्चत् ॥
ā́ ǀ yát ǀ duvasyā́t ǀ duváse ǀ ná ǀ kārúḥ ǀ asmā́n ǀ cakré ǀ mānyásya ǀ medhā́ ǀ
ó íti ǀ sú ǀ vartta ǀ marutaḥ ǀ vípram ǀ áccha ǀ imā́ ǀ bráhmāṇi ǀ jaritā́ ǀ vaḥ ǀ arcat ǁ
ā ǀ yat ǀ duvasyāt ǀ duvase ǀ na ǀ kāruḥ ǀ asmān ǀ cakre ǀ mānyasya ǀ medhā ǀ
o iti ǀ su ǀ vartta ǀ marutaḥ ǀ vipram ǀ accha ǀ imā ǀ brahmāṇi ǀ jaritā ǀ vaḥ ǀ arcat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.165.14
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.3.26.04
- Maṇḍala · Anuvāka · Ṛk
- 1.23.014
- Devatā देवता
- 1, 2, 6, 8, 10-15: Maruts; 3-5, 7, 9: Indra
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.