Ṛgveda · Maṇḍala 1 · Sūkta 165
Ṛk 1.165.10
Saṃhitā
एक॑स्य चिन्मे वि॒भ्व१॒॑स्त्वोजो॒ या नु द॑धृ॒ष्वान्कृ॒णवै॑ मनी॒षा ।
अ॒हं ह्यू१॒॑ग्रो म॑रुतो॒ विदा॑नो॒ यानि॒ च्यव॒मिंद्र॒ इदी॑श एषां ॥
एकस्य चिन् मे विभ्व् अस्त्व् ओजो या नु दधृष्वान् कृणवै मनीषा |
अहं ह्य् उग्रो मरुतो विदानो यानि च्यवम् इन्द्र इद् ईश एषाम् ||
ékasya cinme vibhvástvójo yā́ nú dadhṛṣvā́nkṛṇávai manīṣā́ ǀ
ahám hyū́gró maruto vídāno yā́ni cyávamíndra ídīśa eṣām ǁ
ekasya cin me vibhv astv ojo yā nu dadhṛṣvān kṛṇavai manīṣā |
ahaṃ hy ugro maruto vidāno yāni cyavam indra id īśa eṣām ||
Padapāṭha
एक॑स्य । चि॒त् । मे॒ । वि॒ऽभु । अ॒स्तु॒ । ओजः॑ । या । नु । द॒धृ॒ष्वान् । कृ॒णवै॑ । म॒नी॒षा ।
अ॒हम् । हि । उ॒ग्रः । म॒रु॒तः॒ । विदा॑नः । यानि॑ । च्यव॑म् । इन्द्रः॑ । इत् । ई॒शे॒ । ए॒षा॒म् ॥
एकस्य । चित् । मे । विऽभु । अस्तु । ओजः । या । नु । दधृष्वान् । कृणवै । मनीषा ।
अहम् । हि । उग्रः । मरुतः । विदानः । यानि । च्यवम् । इन्द्रः । इत् । ईशे । एषाम् ॥
ékasya ǀ cit ǀ me ǀ vi-bhú ǀ astu ǀ ójaḥ ǀ yā́ ǀ nú ǀ dadhṛṣvā́n ǀ kṛṇávai ǀ manīṣā́ ǀ
ahám ǀ hí ǀ ugráḥ ǀ marutaḥ ǀ vídānaḥ ǀ yā́ni ǀ cyávam ǀ índraḥ ǀ ít ǀ īśe ǀ eṣām ǁ
ekasya ǀ cit ǀ me ǀ vi-bhu ǀ astu ǀ ojaḥ ǀ yā ǀ nu ǀ dadhṛṣvān ǀ kṛṇavai ǀ manīṣā ǀ
aham ǀ hi ǀ ugraḥ ǀ marutaḥ ǀ vidānaḥ ǀ yāni ǀ cyavam ǀ indraḥ ǀ it ǀ īśe ǀ eṣām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.165.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.3.25.05
- Maṇḍala · Anuvāka · Ṛk
- 1.23.010
- Devatā देवता
- 1, 2, 6, 8, 10-15: Maruts; 3-5, 7, 9: Indra
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.