Ṛk 1.59.2
Saṃhitā
मू॒र्धा दि॒वो नाभि॑र॒ग्निः पृ॑थि॒व्या अथा॑भवदर॒ती रोद॑स्योः ।
तं त्वा॑ दे॒वासो॑ऽजनयंत दे॒वं वैश्वा॑नर॒ ज्योति॒रिदार्या॑य ॥
मूर्धा दिवो नाभिर् अग्निः पृथिव्या अथाभवद् अरती रोदस्योः |
तं त्वा देवासो ऽजनयन्त देवं वैश्वानर ज्योतिर् इद् आर्याय ||
mūrdhā́ divó nā́bhiragníḥ pṛthivyā́ áthābhavadaratī́ ródasyoḥ ǀ
tám tvā devā́so’janayanta devám váiśvānara jyótirídā́ryāya ǁ
mūrdhā divo nābhir agniḥ pṛthivyā athābhavad aratī rodasyoḥ |
taṃ tvā devāso 'janayanta devaṃ vaiśvānara jyotir id āryāya ||
Padapāṭha
मू॒र्धा । दि॒वः । नाभिः॑ । अ॒ग्निः । पृ॒थि॒व्याः । अथ॑ । अ॒भ॒व॒त् । अ॒र॒तिः । रोद॑स्योः ।
तम् । त्वा॒ । दे॒वासः॑ । अ॒ज॒न॒य॒न्त॒ । दे॒वम् । वैश्वा॑नर । ज्योतिः॑ । इत् । आर्या॑य ॥
मूर्धा । दिवः । नाभिः । अग्निः । पृथिव्याः । अथ । अभवत् । अरतिः । रोदस्योः ।
तम् । त्वा । देवासः । अजनयन्त । देवम् । वैश्वानर । ज्योतिः । इत् । आर्याय ॥
mūrdhā́ ǀ diváḥ ǀ nā́bhiḥ ǀ agníḥ ǀ pṛthivyā́ḥ ǀ átha ǀ abhavat ǀ aratíḥ ǀ ródasyoḥ ǀ
tám ǀ tvā ǀ devā́saḥ ǀ ajanayanta ǀ devám ǀ váiśvānara ǀ jyótiḥ ǀ ít ǀ ā́ryāya ǁ
mūrdhā ǀ divaḥ ǀ nābhiḥ ǀ agniḥ ǀ pṛthivyāḥ ǀ atha ǀ abhavat ǀ aratiḥ ǀ rodasyoḥ ǀ
tam ǀ tvā ǀ devāsaḥ ǀ ajanayanta ǀ devam ǀ vaiśvānara ǀ jyotiḥ ǀ it ǀ āryāya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.059.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.25.02
- Maṇḍala · Anuvāka · Ṛk
- 1.11.011
- Devatā देवता
- Agni Vaiśvānara
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.