Ṛgveda · Maṇḍala 1 · Sūkta 101
Ṛk 1.101.4
Saṃhitā
यो अश्वा॑नां॒ यो गवां॒ गोप॑तिर्व॒शी य आ॑रि॒तः कर्म॑णिकर्मणि स्थि॒रः ।
वी॒ळोश्चि॒दिंद्रो॒ यो असु॑न्वतो व॒धो म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥
यो अश्वानां यो गवां गोपतिर् वशी य आरितः कर्मणि-कर्मणि स्थिरः |
वीऌओश् चिद् इन्द्रो यो असुन्वतो वधो मरुत्वन्तं सख्याय हवामहे ||
yó áśvānām yó gávām gópatirvaśī́ yá āritáḥ kármaṇikarmaṇi sthiráḥ ǀ
vīḷóścidíndro yó ásunvato vadhó marútvantam sakhyā́ya havāmahe ǁ
yo aśvānāṃ yo gavāṃ gopatir vaśī ya āritaḥ karmaṇi-karmaṇi sthiraḥ |
vīḷoś cid indro yo asunvato vadho marutvantaṃ sakhyāya havāmahe ||
Padapāṭha
यः । अश्वा॑नाम् । यः । गवा॑म् । गोऽप॑तिः । व॒शी । यः । आ॒रि॒तः । कर्म॑णिऽकर्मणि । स्थि॒रः ।
वी॒ळोः । चि॒त् । इन्द्रः॑ । यः । असु॑न्वतः । व॒धः । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥
यः । अश्वानाम् । यः । गवाम् । गोऽपतिः । वशी । यः । आरितः । कर्मणिऽकर्मणि । स्थिरः ।
वीळोः । चित् । इन्द्रः । यः । असुन्वतः । वधः । मरुत्वन्तम् । सख्याय । हवामहे ॥
yáḥ ǀ áśvānām ǀ yáḥ ǀ gávām ǀ gó-patiḥ ǀ vaśī́ ǀ yáḥ ǀ āritáḥ ǀ kármaṇi-karmaṇi ǀ sthiráḥ ǀ
vīḷóḥ ǀ cit ǀ índraḥ ǀ yáḥ ǀ ásunvataḥ ǀ vadháḥ ǀ marútvantam ǀ sakhyā́ya ǀ havāmahe ǁ
yaḥ ǀ aśvānām ǀ yaḥ ǀ gavām ǀ go-patiḥ ǀ vaśī ǀ yaḥ ǀ āritaḥ ǀ karmaṇi-karmaṇi ǀ sthiraḥ ǀ
vīḷoḥ ǀ cit ǀ indraḥ ǀ yaḥ ǀ asunvataḥ ǀ vadhaḥ ǀ marutvantam ǀ sakhyāya ǀ havāmahe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.101.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.12.04
- Maṇḍala · Anuvāka · Ṛk
- 1.15.071
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.