Ṛgveda · Maṇḍala 1 · Sūkta 101
Ṛk 1.101.6
Saṃhitā
यः शूरे॑भि॒र्हव्यो॒ यश्च॑ भी॒रुभि॒र्यो धाव॑द्भिर्हू॒यते॒ यश्च॑ जि॒ग्युभिः॑ ।
इंद्रं॒ यं विश्वा॒ भुव॑ना॒भि सं॑द॒धुर्म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥
यः शूरेभिर् हव्यो यश् च भीरुभिर् यो धावद्भिर् हूयते यश् च जिग्युभिः |
इन्द्रं यं विश्वा भुवनाभि संदधुर् मरुत्वन्तं सख्याय हवामहे ||
yáḥ śū́rebhirhávyo yáśca bhīrúbhiryó dhā́vadbhirhūyáte yáśca jigyúbhiḥ ǀ
índram yám víśvā bhúvanābhí saṃdadhúrmarútvantam sakhyā́ya havāmahe ǁ
yaḥ śūrebhir havyo yaś ca bhīrubhir yo dhāvadbhir hūyate yaś ca jigyubhiḥ |
indraṃ yaṃ viśvā bhuvanābhi saṃdadhur marutvantaṃ sakhyāya havāmahe ||
Padapāṭha
यः । शूरे॑भिः । हव्यः॑ । यः । च॒ । भी॒रुऽभिः॑ । यः । धाव॑त्ऽभिः । हू॒यते॑ । यः । च॒ । जि॒ग्युभिः॑ ।
इन्द्र॑म् । यम् । विश्वा॑ । भुव॑ना । अ॒भि । स॒म्ऽद॒धुः । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥
यः । शूरेभिः । हव्यः । यः । च । भीरुऽभिः । यः । धावत्ऽभिः । हूयते । यः । च । जिग्युभिः ।
इन्द्रम् । यम् । विश्वा । भुवना । अभि । सम्ऽदधुः । मरुत्वन्तम् । सख्याय । हवामहे ॥
yáḥ ǀ śū́rebhiḥ ǀ hávyaḥ ǀ yáḥ ǀ ca ǀ bhīrú-bhiḥ ǀ yáḥ ǀ dhā́vat-bhiḥ ǀ hūyáte ǀ yáḥ ǀ ca ǀ jigyúbhiḥ ǀ
índram ǀ yám ǀ víśvā ǀ bhúvanā ǀ abhí ǀ sam-dadhúḥ ǀ marútvantam ǀ sakhyā́ya ǀ havāmahe ǁ
yaḥ ǀ śūrebhiḥ ǀ havyaḥ ǀ yaḥ ǀ ca ǀ bhīru-bhiḥ ǀ yaḥ ǀ dhāvat-bhiḥ ǀ hūyate ǀ yaḥ ǀ ca ǀ jigyubhiḥ ǀ
indram ǀ yam ǀ viśvā ǀ bhuvanā ǀ abhi ǀ sam-dadhuḥ ǀ marutvantam ǀ sakhyāya ǀ havāmahe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.101.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.12.06
- Maṇḍala · Anuvāka · Ṛk
- 1.15.073
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.