Ṛgveda · Maṇḍala 1 · Sūkta 101
Ṛk 1.101.2
Saṃhitā
यो व्यं॑सं जाहृषा॒णेन॑ म॒न्युना॒ यः शंब॑रं॒ यो अह॒न्पिप्रु॑मव्र॒तं ।
इंद्रो॒ यः शुष्ण॑म॒शुषं॒ न्यावृ॑णङ्म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥
यो व्यंसं जाहृषाणेन मन्युना यः शम्बरं यो अहन् पिप्रुम् अव्रतम् |
इन्द्रो यः शुष्णम् अशुषं न्य् आवृणङ् मरुत्वन्तं सख्याय हवामहे ||
yó vyáṃsam jāhṛṣāṇéna manyúnā yáḥ śámbaram yó áhanpíprumavratám ǀ
índro yáḥ śúṣṇamaśúṣam nyā́vṛṇaṅmarútvantam sakhyā́ya havāmahe ǁ
yo vyaṃsaṃ jāhṛṣāṇena manyunā yaḥ śambaraṃ yo ahan piprum avratam |
indro yaḥ śuṣṇam aśuṣaṃ ny āvṛṇaṅ marutvantaṃ sakhyāya havāmahe ||
Padapāṭha
यः । विऽअं॑सम् । ज॒हृ॒षा॒णेन॑ । म॒न्युना॑ । यः । शम्ब॑रम् । यः । अह॑न् । पिप्रु॑म् । अ॒व्र॒तम् ।
इन्द्रः॑ । यः । शुष्ण॑म् । अ॒शुष॑म् । नि । अवृ॑णक् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥
यः । विऽअंसम् । जहृषाणेन । मन्युना । यः । शम्बरम् । यः । अहन् । पिप्रुम् । अव्रतम् ।
इन्द्रः । यः । शुष्णम् । अशुषम् । नि । अवृणक् । मरुत्वन्तम् । सख्याय । हवामहे ॥
yáḥ ǀ ví-aṃsam ǀ jahṛṣāṇéna ǀ manyúnā ǀ yáḥ ǀ śámbaram ǀ yáḥ ǀ áhan ǀ píprum ǀ avratám ǀ
índraḥ ǀ yáḥ ǀ śúṣṇam ǀ aśúṣam ǀ ní ǀ ávṛṇak ǀ marútvantam ǀ sakhyā́ya ǀ havāmahe ǁ
yaḥ ǀ vi-aṃsam ǀ jahṛṣāṇena ǀ manyunā ǀ yaḥ ǀ śambaram ǀ yaḥ ǀ ahan ǀ piprum ǀ avratam ǀ
indraḥ ǀ yaḥ ǀ śuṣṇam ǀ aśuṣam ǀ ni ǀ avṛṇak ǀ marutvantam ǀ sakhyāya ǀ havāmahe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.101.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.12.02
- Maṇḍala · Anuvāka · Ṛk
- 1.15.069
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.