Ṛgveda · Maṇḍala 1 · Sūkta 174
Ṛk 1.174.3
Saṃhitā
अजा॒ वृत॑ इंद्र॒ शूर॑पत्नी॒र्द्यां च॒ येभिः॑ पुरुहूत नू॒नं ।
रक्षो॑ अ॒ग्निम॒शुषं॒ तूर्व॑याणं सिं॒हो न दमे॒ अपां॑सि॒ वस्तोः॑ ॥
अजा वृत इन्द्र शूरपत्नीर् द्यां च येभिः पुरुहूत नूनम् |
रक्षो अग्निम् अशुषं तूर्वयाणं सिंहो न दमे अपांसि वस्तोः ||
ájā vṛ́ta indra śū́rapatnīrdyā́m ca yébhiḥ puruhūta nūnám ǀ
rákṣo agnímaśúṣam tū́rvayāṇam siṃhó ná dáme ápāṃsi vástoḥ ǁ
ajā vṛta indra śūrapatnīr dyāṃ ca yebhiḥ puruhūta nūnam |
rakṣo agnim aśuṣaṃ tūrvayāṇaṃ siṃho na dame apāṃsi vastoḥ ||
Padapāṭha
अज॑ । वृतः॑ । इ॒न्द्र॒ । शूर॑ऽपत्नीः । द्याम् । च॒ । येभिः॑ । पु॒रु॒ऽहू॒त॒ । नू॒नम् ।
रक्षो॒ इति॑ । अ॒ग्निम् । अ॒शुष॑म् । तूर्व॑याणम् । सिं॒हः । न । दमे॑ । अपां॑सि । वस्तोः॑ ॥
अज । वृतः । इन्द्र । शूरऽपत्नीः । द्याम् । च । येभिः । पुरुऽहूत । नूनम् ।
रक्षो इति । अग्निम् । अशुषम् । तूर्वयाणम् । सिंहः । न । दमे । अपांसि । वस्तोः ॥
ája ǀ vṛ́taḥ ǀ indra ǀ śū́ra-patnīḥ ǀ dyā́m ǀ ca ǀ yébhiḥ ǀ puru-hūta ǀ nūnám ǀ
rákṣo íti ǀ agním ǀ aśúṣam ǀ tū́rvayāṇam ǀ siṃháḥ ǀ ná ǀ dáme ǀ ápāṃsi ǀ vástoḥ ǁ
aja ǀ vṛtaḥ ǀ indra ǀ śūra-patnīḥ ǀ dyām ǀ ca ǀ yebhiḥ ǀ puru-hūta ǀ nūnam ǀ
rakṣo iti ǀ agnim ǀ aśuṣam ǀ tūrvayāṇam ǀ siṃhaḥ ǀ na ǀ dame ǀ apāṃsi ǀ vastoḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.174.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.16.03
- Maṇḍala · Anuvāka · Ṛk
- 1.23.089
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.