Ṛgveda · Maṇḍala 1 · Sūkta 174
Ṛk 1.174.5
Saṃhitā
वह॒ कुत्स॑मिंद्र॒ यस्मिं॑चा॒कन्त्स्यू॑म॒न्यू ऋ॒ज्रा वात॒स्याश्वा॑ ।
प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके॒ऽभि स्पृधो॑ यासिष॒द्वज्र॑बाहुः ॥
वह कुत्सम् इन्द्र यस्मिञ् चाकन् स्यूमन्यू ऋज्रा वातस्याश्वा |
प्र सूरश् चक्रं वृहताद् अभीके ऽभि स्पृधो यासिषद् वज्रबाहुः ||
váha kútsamindra yásmiñcākántsyūmanyū́ ṛjrā́ vā́tasyā́śvā ǀ
prá sū́raścakrám vṛhatādabhī́ke’bhí spṛ́dho yāsiṣadvájrabāhuḥ ǁ
vaha kutsam indra yasmiñ cākan syūmanyū ṛjrā vātasyāśvā |
pra sūraś cakraṃ vṛhatād abhīke 'bhi spṛdho yāsiṣad vajrabāhuḥ ||
Padapāṭha
वह॑ । कुत्स॑म् । इ॒न्द्र॒ । यस्मि॑न् । चा॒कन् । स्यू॒म॒न्यू इति॑ । ऋ॒ज्रा । वात॑स्य । अश्वा॑ ।
प्र । सूरः॑ । च॒क्रम् । वृ॒ह॒ता॒त् । अ॒भीके॑ । अ॒भि । स्पृधः॑ । या॒सि॒ष॒त् । वज्र॑ऽबाहुः ॥
वह । कुत्सम् । इन्द्र । यस्मिन् । चाकन् । स्यूमन्यू इति । ऋज्रा । वातस्य । अश्वा ।
प्र । सूरः । चक्रम् । वृहतात् । अभीके । अभि । स्पृधः । यासिषत् । वज्रऽबाहुः ॥
váha ǀ kútsam ǀ indra ǀ yásmin ǀ cākán ǀ syūmanyū́ íti ǀ ṛjrā́ ǀ vā́tasya ǀ áśvā ǀ
prá ǀ sū́raḥ ǀ cakrám ǀ vṛhatāt ǀ abhī́ke ǀ abhí ǀ spṛ́dhaḥ ǀ yāsiṣat ǀ vájra-bāhuḥ ǁ
vaha ǀ kutsam ǀ indra ǀ yasmin ǀ cākan ǀ syūmanyū iti ǀ ṛjrā ǀ vātasya ǀ aśvā ǀ
pra ǀ sūraḥ ǀ cakram ǀ vṛhatāt ǀ abhīke ǀ abhi ǀ spṛdhaḥ ǀ yāsiṣat ǀ vajra-bāhuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.174.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.16.05
- Maṇḍala · Anuvāka · Ṛk
- 1.23.091
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.